________________
१०
काव्यमाला |
नितान् यस्यां भवान् गुरून्, कृतद्रव्यसारकान् क्रयविक्रयभाषिणः सत्पदव्या समीचीनमार्गेण करणेन नरेन्द्राध्यक्षधर्माधर्मविचारस्थानेन च मानितानधिष्ठितान् यस्यां भवान् विपणींश्च, संश्रिताः सन्तः शिष्या ग्राहकाश्च अन्यनगरीसंबन्धिनोऽन्यवस्तुनो वाछया न जिहते यान्ति । श्लेषालंकारः ॥
परं वचित्वा पुरि देवदारु तन्न दारु यस्यामुपयाति विक्रयम् । गृहाणि तार्णानि भवन्ति पक्षिणां कुरङ्गजातिर्न नटेषु सद्मसु || ३६ ||
परमिति ॥ यस्यां पुरि परं केवलं देवदारु सरलद्रुमकाष्ठं वचित्वा विहाय तत्प्रसिद्धं दारु खादिरादि विक्रयं नोपयाति । तथा तार्णानि गृहाणि पक्षिणां चटकादीनाम्, न जनानाम् । कुत्सितनृत्यस्थानजातिर्नटेषु न, अपि तु कुरङ्गजातिः क्रीडामृगविशेषः सद्मसु गृवेवास्ति । परिसंख्या ॥
भटा जुहूराणरथद्विपं नृपाः श्रयन्ति घातं चतुरङ्गपद्धतौ । परांशुकाक्षेपणमङ्गना रतौ विधौ कलङ्कोऽप्यहिषु द्विजिह्वता ॥ ३७ ॥ भटा इति ॥ यस्यां चतुरङ्गपद्धतौ द्यूतविशेषे केवलं भटा वीराः, जुहूराणास्तुरंगमाः, रथा लोहबद्धशकटाः, द्विपा दन्तिनः नृपा नरेन्द्रा घातं श्रयन्ति । अङ्गना रतौ परेभ्यो रमणेभ्योंऽशुकस्यापक्षेपणमाकर्षणम्, न तस्करादिभ्यः । विधौ चन्द्रे कलङ्कः, नान्यत्र । सर्पेषु सर्पता, न जनेषु सूचकता । परिसंख्या ॥
जडेषु बाह्येषु च जीवलोकतो दृशामपथ्येषु पदानतेष्वपि ।
हतावकुर्वत्सु जनस्य वेदनां नखाश्छिदां यत्र नयन्ति जन्तवः ॥ ३८ ॥
जडेष्विति ॥ यत्र जीवलोकतो जीवावष्टब्धशरीराद्वहिर्भूतेषु, दृशां लोचनानाम् अपथ्येषु आन्ध्यकारिषु, चरणनतेषु, हतावपि ताडनायामपि सत्यां जनस्य लोकस्य वेदनां कदर्थनाम् अविदधत्सु जडेषु अचेतनेषु नखाश्चरणरुहा एव छिदां खण्डनां न यन्ति प्राप्नुवन्ति । सम्यग्दर्शनादीनां विरोधिषु, ताडनायां सत्यामपि पदानतेषु पदलग्नेषु, जनस्य पीडामकुर्वत्सु, जडेषु अज्ञेषु, जीवलोकतो ब्राह्मणक्षत्रियवैश्यादिभ्यो बहिः कृतेषु चाण्डालादिषु जन्तवः प्राणिनः न यन्ति प्राप्नुवन्ति । परिसंख्या ॥
अनन्यसाधारणरूपकान्तिषु स्मरोऽन्धकारातिविघातहेतुषु ।
धनुः समारोप्य गृहीतरोपण ः पुरि भ्रमन्यत्र करोत्युपप्लवम् ॥ ३९ ॥ अनन्येति ॥ यत्र पुरि गृहीत रोपणोऽङ्गीकृतबाणः स्मरो मारः न अन्यसाधारणा रूपकान्तिर्येषां तेषु अन्धकारस्यात्यन्तविघातकारणेषु चन्द्रादिषु सत्सु धनुः समारोप्य भ्रमन् सन् उपप्लवं करोति । चन्द्रादीनामुद्दीपकत्वात् । उक्तं च- ' आस्तां परेषां नरकीटकानां तपस्थितानामपि चै मुनीनाम् । चन्द्रासवाभ्यां रमणीजनेभ्यः प्रोद्दीपनं केशवन -