________________
८
काव्यमाला |
यूराणां कं सुखं लपन्तीत्येवंशीलानां सत्पुरुषाणां वा निवासयष्टयः गृहवरण्डिका हर्म्यपङ्कयो वा, मायूरपताकिका मायूरवैजयन्त्य इव, स्फुरन्ति । उपमा ॥
सितासिताम्भोरुहसारितान्तराः प्रवृत्तपाठीनविवर्तनक्रियाः ।
समायता यत्र विभान्ति दीर्घिकाः कटाक्षलीला इव वारयोषिताम् ॥ २६॥ सितेति ॥ यत्र सितासिताम्भोरुहसारितान्तराः श्वेतनीलकमलपूरितमध्याः, प्रवृत्ताः संजाताः पाठीनानां मीनानां विवर्तनक्रिया यासु ताः समाः समकोणा आयता दीर्घा दीर्घिकाः क्रीडावाप्यः, शुक्लश्यामाम्बुजैरिव संवलितमध्याः प्रवृत्ताः पाठीनानामिव विवर्तनक्रिया यासां ताः पण्याङ्गनानां कटाक्षलीला अपाङ्गपातशोभा इव विभान्ति ।
उपमा ||
अदृश्यपारापतनाभिहेतुषु स्थिरान्धकारेषु जलावगाहिषु ।
अधोगतिं संप्रतिपन्नवत्सु या न कूपदेशेष्वपि सत्सु दूषिता ॥ २७ ॥ अदृश्येति ॥ अदृश्यापारा अनिरीक्ष्यपर्यन्ता, या नगरी, पतनाभिहेतुषु गृहीतव्रतप्रच्यवनाभिकारणेषु, स्थिरान्धकारेषु स्थिरपापेषु, जडावगाहिषु, अधोगतिं निन्द्याचरणं संप्राप्तवत्सु, कुत्सितोपदेशेषु सत्स्वपि न दूषितेति विरोधः । अदृश्याः पारापताः पक्षिणो यत्र तस्या नाभेर्मध्यस्य हेतुषु वृद्धिंप्रापकेषु, स्थिरान्धकारेषु स्तिमिततमः स्तोमेषु, जलमवगाहिषु, अधोगतिमधस्ताद्विवरमार्गे संप्रतिपन्नवत्सु, कूपदेशेषु प्रहिप्रदेशेषु सत्स्वपि या न दूषितेति परिहारः । विरोधालंकारः ॥
'अशोक सप्तच्छदनागकेसरैः सुमाधिकैराततपुष्पवासनैः ।
प्रयान्त्यभिज्ञातपथाः कथंचन क्षपासु यस्यां प्रियवास॑मङ्गनाः ॥ २८ ॥
अशोकेति ॥ यस्यां, क्षपासु, अङ्गना: कमनीयकामिन्यः, सुमाधिकैः, पुष्पाधिकैः, आततपुष्पवासनैः प्रसृतकुसुमामोदैः, अशोकैः पिण्डीद्रुमैः सप्तच्छदैः सप्तपर्णैः नागकेशरैवृक्षविशेषैः, कथंचन महता कष्टेन अभिज्ञातपथा आत्मप्रतीतिनीतमार्गाः सत्यः प्रियावासं वल्लभसुरतमन्दिरं प्रयान्ति ॥
विशीर्णहारा हतकीर्णशेखरायुतोरुजाला गलितावतंसकाः । रतोत्सवे विस्मृतसीधुशुक्तयो यदीयसंकेतभुवश्चकासति ॥ २९ ॥
विशीर्णेति ॥ यदीयसंकेतभुवः, त्रुटितमौक्तिकावल्यः, पूर्व हताः पश्चात्कीर्णाः शिखास्थसुममाला यासु ताः, पतितमेखलाः, च्युतकर्णभूषणाः, विस्मृतमद्यचषकाः सत्यो दीप्यते ॥
तनुं नटन्त्याः किल काचकुट्टिमे भुवस्तले यत्र विलोक्य बिम्बिताम् । इयं प्रविष्टा किमसूचिता वधूरिति भ्रकुंसैर्भ्रकुटिर्विरच्यते ॥ ३० ॥