SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १ सर्गः ] द्विसंधानम् । इत इति ॥ स्वाम् इतस्ततः प्रदेशेषु वप्रभूमयो गिरितटावनयः अभ्रंलिह शृङ्गकोटयो गगनतलस्पर्शिशिखराः गजेन्द्रदन्ताहतिगाढगह्वरैर्दन्तीन्द्रदन्तप्रहार गाढच्छिदैः, हर्म्य - पङ्कयः गवाक्षजालैर्वातायनकदम्बकैरिव, विभान्ति । श्लेषोपमा ॥ समुच्छ्रिते यत्परिधौ हिरण्मये प्रहाविवागाधतमे तमोरिपुः । भवत्यनूचान इवोग्रचर्यया स दृष्टनष्टोऽहनि मध्यमे चरन् ॥ २१ ॥ समुच्छ्रितेति ॥ समुच्छ्रिते समुन्नते हिरण्मये काञ्चनमये यस्याः परिधौ प्राकारे, उग्रचर्यया तीव्रगत्या चरन् तमोरिपुः सूर्यः मध्याह्ने पूर्व दृष्टः पश्चान्नष्ट: विलोकिततिरोहितः, अगाधतमे प्रौ कूपे उग्रचर्याया तीव्रव्रताचरणेन चरन् अनूचानः तपस्वीव, भवति । उपमा || सपुष्पशय्याजगतीलतागृहाः सहेमसोपानपथाः सनिर्झराः । स्फुटं तथा यत्र सुरोपसेव्यतां व्रजन्ति मेरोरिव कृत्रिमाद्रयः ॥ २२ ॥ पुष्पेति ॥ यत्र पुष्पशय्याः कुसुमशयनानि जगत्यो वेदिकाः, लतागृहा वल्लीमन्दिराणि तैः सह वर्तमानाः, सहेमसोपानपथाः कनकपादस्थानीयमार्गैः सहिताः, निर्जरैः सहिताः, कृत्रिमाद्रयः क्रीडाचलाः, मदिरानुशीलत्वम्, एवं विशेषणविशिष्टा मेरोः तटाः सानवः देवाश्रयणीयताम् इव स्फुटं व्रजन्ति । उपमा ॥ अनेकमन्तर्वणवारितातपं तपेऽपि यन्त्रोद्धृतवारिपूरितम् । शिखावलान्यत्र वह प्रणालिकं करोति धारागृहमन्दशङ्किनः ॥ २३ ॥ अनेकेति ॥ यत्र विविधप्रकारम्, वनमध्यनिराकृतोष्णम् यन्त्रोद्धृतवारिपूरितं वह - त्प्रणालिकं धारागृहं तपे ग्रीष्मेऽपि अब्दशङ्किनः जलधरवितर्किणः शिखावलान् मयूरान् करोति । भ्रान्तिमानलंकारः ॥ विशालकूटाः सुखवासहेतवः समुन्नता यत्र सुधालयालयः । ज्वलन्ति जालोद्गतधूमयष्टयः पुरस्य धूपोद्गमकुण्डिका इव ॥ २४ ॥ विशालेति ॥ यत्र विशालकूटा विस्तीर्णशिखराः, सुखावासहेतवः सुखस्थितिकारणानि, जालोद्गतधूमयष्टयो वातायन निर्गतधूममञ्जर्यः, समुन्नता उच्चाः, सुधालयालय श्रूशुभ्रमन्दिर श्रेणयः, विशालकूटाः विस्तीर्णकण्ठाः, सुखवासहेतवः सुखपरिमलनिमित्तानि, जालोद्गतधूमयष्टयो गवाक्षरन्ध्रोद्गीर्णधूमयष्टयः उच्चाः पुरस्य नगरस्य धूपार्थमुद्गमः प्रादुर्भाव यासां ताः कुण्डिका इव, ज्वलन्ति भान्ति । उत्प्रेक्षा ॥ सुवर्णमय्यः शुचिरत्नपीठिका हरिन्मणीनां फलकैः कृतस्थलाः । कलापिनां यत्र निवासयष्टयः स्फुरन्ति मायूरपताकिका इव ॥ २९ ॥ सुवर्णेति ॥ यत्र, कनकविकाराः, शुचिरत्नपीठिका: स्फाटिकमणिपीठिकाः, हरिन्मणीनां मरकतमणीनां, फलकैः पट्टिकाभिः कृतस्थला विहितास्पदाः, कलापिनां म
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy