________________
काव्यमाला।
ते, 'तमः खलु चलं नीलम्' इति वचनाचलास्तमस्विनः, मनोजवामे कंदर्पानुकूले अघपथे पापमार्गे अतिशयेन वर्तमानाः, गुरुभिरुपाध्यायैः, प्रसह्य हठात् , महापथं सन्मार्ग, नीताः प्रापिताः, नरो मनुष्याः। कुशयावल्गयासने स्थानकविशेषे उदीरितं दत्तं चेतो यैस्ते, चलाश्चञ्चलाः,मनोजवा मनोवेगिनः, मेघपथे नभःस्थले, अतिवर्तिनः उत्लवनशीलाः, वाजिनोऽश्वा अपि गुरुभिरश्ववारैः प्रसह्य महापथं वाह्याली नीताः । अतिदाम्यन्ति सुशिक्षिता जायन्ते । श्लेषः ॥ प्रभाविरामस्य सपत्नसंततेः शरासनाभ्यासपदं किरीटिनः । बहिर्यतोऽद्यापि निचाय्य दूरगं मदं विमुञ्चन्ति शरं न धन्विनः ॥ १७॥ प्रभेति ॥ यतः बहिर्बाह्यप्रदेशेऽद्यापि सांप्रतमपि किरीटिनो मुकुटवतो रामस्य शराणामसने प्रक्षेपेऽभ्यासपदं दूरगं विप्रकृष्टं सपत्नानामरीणां संततेः प्रभवनशीलं निचाय्य आलोक्य धन्विनश्चापधराः शरासनस्याभ्यासे पदं निष्ठा यस्य, शत्रूणां प्रभवनशीलं दूरगं शरं बाणं न मुञ्चन्ति, अपि तु मदम् ॥ भारतीयपक्षे-शत्रुसंततेः प्रभायाः विरामोऽन्तो यस्मात्तस्य किरीटिनोऽर्जुनस्येति विशेषः । श्लेषालंकारः ॥
प्रपासभासार्थनटाश्रमत्रजैर्जनाकुलैर्भान्ति भृशं बहिर्भुवः । प्रजाः कुतश्चित्परदेशभङ्गतो विलोलिता यां शरणं गता इव ॥ १८॥ प्रपेति ॥ बहिर्भुवो बहिर्देशाः भृशमत्यर्थम्, जनाकुलैः । प्रपा जलस्थानम्, सभा नियोगिनां धर्मविचारस्थानम्, सार्था वणिग्जनानां समूहाः, बहुरूपिणः, आश्रमास्तपस्विनां मठाः, व्रजा गोकुलानि, तैः कुतश्चित्परदेशभङ्गतः कस्माच्चिच्छत्रुमण्डलाद् विलोलिताः कदर्थिताः प्रजाः कारुकादयो जना यां नगरीं शरणं गता इव भान्ति भासन्ते । उत्प्रेक्षा ॥
असूययागम्य निशाम्य यां पुरो विलज्जयाम्भःपरिणामिनी दशाम् । गता इवाभान्ति कुलाद्रिपेशलाश्चरण्युलोलाः परिखाम्बुवीचयः ॥ १९॥ असूयेति ॥ कुलाचलसदृशाः, चरण्युलोला अनिलचञ्चलाः परिखाम्बुवीचयः असू. यया परगुणासहनेन, आगम्य आगत्य, यां नगरी, निशाम्य विलोक्य, पुरोऽन्या नगर्यः, विलज्जया अम्भःपरिणामिनी अम्भसः परिणामः पर्यायोऽस्त्यस्याः तां जलरूपपरिणमनशीलां दशामवस्थां गता इव आभान्ति । उत्प्रेक्षा ॥ इतस्ततोऽभ्रंलिहशृङ्गकोटयो विभान्ति यस्यां पुरि वप्रभूमयः । गजेन्द्रदन्ताहतिगाढगह्वरैर्गवाक्षजालैरिव हर्म्यपतयः ॥ २० ॥ १. अनेन तमसि क्रियावत्त्वस्यैव पूर्वपक्षितत्वेन चलशब्दस्य तमःपर्यायतायां माना. भावाच्चिन्त्यमिदम्.