________________
सटीकम् ।
66
जैत्रैरिति ।। यत्र उज्जयिन्याम् । कुसुमधनुषः कुसुमान्येव धनुर्यस्य तस्य मन्मथस्य । पुष्पधन्वा रतिपतिः " इत्यमरः । जैत्रैः जयनशीलैर्बाणैः । दूरपातैः दूरे पातः पतनं येषां तैः । अमोघैः न मोघाः अमोघास्तैः । " मोघं निरर्थकम् " इत्यमरः । सफलैरित्यर्थः । मर्माविद्भिः मर्मस्थानम् आसमन्ताद्भेदयद्भिः । दृढपरिचित भ्रूधनुर्यष्टिमुक्तैः दृढं गाढं परिचितमभ्यस्तं भ्रुवावेव धनुः दृढपरिचितं च तत् भ्रुधनुश्च तथोक्तं । तदेव वा यष्टिर्दण्डस्तस्या मुक्ताः तैः मदनावस्थोद्रेककरैरित्यर्थः। विद्युद्दामस्फुरितचरितैः विद्युद्दाम्नो विद्युन्मालायाः स्फुरितं स्फुरणं तेन चकितैः कम्पितैः । लोलापाङ्गैः लोलश्चञ्चलोsपाङ्गो येषां तैः " लोलश्चलसतृष्णयोः " " अपाङ्गो नेत्रयोरङ्गे " इत्युभयत्राप्यमरः । पौराङ्गनानां पुरे भवाः पौराः पौराणामङ्गनास्तथोक्ताः । पौराश्च ताः अङ्गनाश्चेति वा तासां । लोचनैः नयनैः । यदि न रमसे न क्रीडयसि । चेत्तार्ह । वश्चितः प्रतारितः । स्याः भवेः । तदपाङ्गनिरीक्षणाभावे जन्मवैफल्यं भवेदिति तात्पर्यम् ॥ १०४ ॥
1
इदानीमुज्जयिनीं गच्छतस्तस्यान्तरे निर्विन्ध्यासरितः सम्बन्धमाह - स्रोतः पश्यन्त्रज पथि लुठन्मीनलोलायताक्ष्या निर्विन्ध्यायाः किमपिकिमपि व्यञ्जिताकूतवृत्तिः । वीचिक्षोभस्तनितविहग श्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ॥ १०५ ॥
८७
स्त्रोत इति । पथि विशालापुरीमार्गे । लुठन्मीनलोलायताक्ष्याः लुठन्तः स्फुरन्तः मीना एव लोले चञ्चले आयते दीर्घे अक्षिणी यस्याः सा तस्याः । वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः वीचिक्षोभेण तरङ्गचलनेन जातं स्तनितं घोषणं विहगानां पक्षिणां श्रेणिः पङ्क्तिः " श्रेणी रेखास्तु राजयः " इत्यमरः । वीचिक्षोभस्तनितेन सहिता विहगश्रेणिस्तथोक्ता सैव काथ्वीगुणो रसनादाम