________________
८८
अयन्त्याः
.
पार्श्वभ्युदयकाव्यं यस्यास्तस्याः । “ स्त्रीकट्या मेखला काञ्ची सप्तकी रसना तथा " इत्यमरः । स्खलितसुभगं गमनस्खलनेन सुभगं यथा तथा । संसर्पन्त्याः गच्छन्त्याः । दर्शितावर्तनाभेः दर्शितः आवतॊभोभ्रमः स एव नाभिर्यस्याः सा “ स्यादावोंभसां भ्रमः” इत्यमरः । निर्विन्ध्यायाः विन्ध्यादचलात् निष्क्रान्ता निर्विन्ध्या नाम नदी । “गतादिषु प्रादयः ” इति समासः । तस्याः स्रोतः । " स्रोतोम्बुसरणं स्वतः" इत्यमरः । प्रवाहमित्यर्थः । किमपिकिमपि वीप्सायां द्विः । यत्किमपि । व्यजिताकूतवृत्तिः व्यजिता प्रकटिता आकृतस्य अभिप्रायस्य वृत्तिर्वर्त्तनं यस्य तथोक्तः सन् । “ आकूतं स्यादभिप्रायः” इति व्यालिः । पश्यन् अवलोकयन् । ब्रज गच्छ ॥ १०५ ॥ त्वय्यौत्सुक्यं स्फुटमिव विनाप्यक्षरैर्व्यञ्जयन्त्याः
किञ्चिल्लज्जावलितमिव संदर्शिताप्तागमायाः। निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥१०६॥२८॥ त्वयीति ॥ पथि उज्जयिनीमार्गे । त्वयि भवति । औत्सुक्यं लाम्पट्यम् । अक्षरैः वर्णैः । विनापि उच्चारणमन्तरेणापीत्यर्थः । “पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने” इत्यमरः । स्फुटं व्यक्तम् । " स्फुटं प्रव्यक्तमुल्बणम् ” इत्यमरः । व्यञ्जयन्त्या इव व्यक्तीकुर्वन्या इव । किञ्चिल्लज्जावलितं किञ्चिदीषत् लज्जया हिया आवलितं वक्रतनुत्वं यथा भवति तथा। संदर्शिताप्तागमायाः संदर्शितः व्यजितः आप्तस्य प्रियस्य आगमः आगमनं ययेति बहुव्रीहिः। तस्या इव । एवं भासमानायाः निर्विन्ध्यायाः वनिताया इति ध्वन्यते । सन्निपत्य समीपं गत्वा । रसाभ्यन्तरः रसो जलं शृङ्गारादि, अभ्यन्तरे यस्य
१ 'आकूतं तद्यत्र भावस्सोऽप्यभीष्टो विभाव्यते' इति लक्षणात् पेयत्वेन स्वाभिमतप्रकाशकदृग्विकारो वाकूतं ।