________________
सटीकम् ।
८९
፡፡
सः । शृङ्गारादौ जले वीर्ये सुवर्णे विषशुकयोः । आस्वादे रसनं प्राहुः " इति शब्दार्णवे । भव सम्यक् तद्रसमनुभवेत्यर्थः । अत्रार्थान्तरन्यासमाह । स्त्रीणां प्रियेषु वल्लभेषु । विभ्रमो विलासः । “स्त्रीणां विलासविव्वोकविभ्रमाललितम् ” इत्यमरः । स एवाद्यमादिमम् । प्रणयवचनं प्रियवाक्यम् । हि स्फुटम् । स्यादिति निर्देशः । विभ्रमैरेव रतिप्रकाशनं न तु वचनतः । विभ्रमश्चात्र नाभिसन्दर्शनादिरेवेति तात्पर्यम् ॥ १०६ ॥
हंसश्रेणीकलविरुतिभिस्त्वामिवोपाह्वयन्ती
धृष्टा मार्गे शिथिलवसने वाङ्गना दृश्यते ते । वेणीभूत प्रतनुसैलिला तामतीतस्य सिन्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ॥ १०७ ॥
हंसश्रेणीति ॥ तां निर्विन्ध्यानदीम् । अतीतस्य अतिक्रान्तस्य । ते तव । मार्गे पथि । तटरुहतरुभ्रंशिभिः तटयोरुहन्तीति तटरुहाः “ ज्ञाकृगृप्रिगुपान्त्यात्कः " इति कप्रत्ययः । तीरद्वयोद्भवास्तरवः तेभ्यः भ्रंशंतीत्येवंशीलानि भ्रंशीनि तैः पतनशीलैः । जीर्णपर्णैः शुष्कदलैः । पाण्डुच्छाया पाण्डुवर्णा विरहावस्थयेति ध्वन्यते । वेणीभूतप्रतनुसलिला प्रागवेणी इदानीं वेणी भवति स्मेति तथोक्तं वेण्याकारं चलितप्रवाहं प्रतनु प्रकर्षेण स्तोकं सलिलं यस्याः सा तथोक्ता । सिन्धुः सिन्धुनाम नदी । " नदे सिन्धुर्देशभेदे " इति वैजयन्ती । शिथिलवसना विश्लिष्टवस्त्रा । धृष्टा निर्लज्जेति यावत् । अङ्गनेव वनितावत् । हंसश्रेणीकलविरुतिभिः हंसानां श्रेण्याः राजेः कलाः " कलो मन्द्रस्तु गम्भीरे " इत्यमरः । विरुतयः शब्दास्ताभिः । त्वां भवन्तम्। उपाह्वयंतीव समीपमाकारयन्तीव । दृश्यते लक्ष्यते । अत्र स्वल्पजलत्वात् शिथिलवसनत्वमुत्प्रेक्ष्यते इति तात्पर्य्यम् १०७
१ सलिलासावतीतस्येत्यपि पाठः । २ अभूततदभावे च्विः " च्वौ" इति दीर्घः