________________
पार्श्वाभ्युदयकाव्यं
क्षामापाण्डुः प्रतनुसलिला वेणिकां धारयन्ती हंसस्वानैरिव विदधती प्रार्थनाचाडुमेषा । सौभाग्यं ते सुभगविरहावस्थया व्यञ्जयन्ती
कार्य्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ १०८॥२९॥
९०.
क्षामेति ॥ हे सुभग मनोरमाङ्ग । क्षामा कृशाङ्गी । पाण्डुः पाण्डुरवर्णा । " हरिणः पाण्डुरः पाण्डुः " इत्यमरः । प्रतनुसलिला स्तोकतोया । वेणिकां वेण्याकारं धारयन्तीति वेणीकृतकेशपाशां वा । " वेणी च वेणीबन्धे जलस्रुतौ ” इति वैजयन्ती । धारयन्ती हंसस्वानैः मन्दसानरवैः । प्रार्थनाचाटुं प्रार्थनाप्रियवचनम् । " अस्त्री चाटु चटु श्लाघा प्रेम्णा " इत्यमरः । विद्धतीव विद्धती । शतृत्यः । "नृदुग्” इति ङी । “अच्छो शतुः" इति नम् । कुर्वतीव विरहावस्थया यल्लकदशतया । “वियोगो मदनावस्था विरहो यल्लकं विदुः" इति धनञ्जयः।“ दशावस्थानेकविधा " इत्यमरः । ते तव । सौभाग्यं सुभगत्वम् । “हृद्भगसिन्धोः” इति उभयपदस्यारैच् । व्यञ्जयन्ती प्रकाशयन्ती । एष सिन्धुः कामिनीति ध्वन्यते । येन विधिना येन विधानेन । “ विधिर्विधाने दैवेपि ” इत्यमरः । कार्श्यम् कृशत्वम् । त्यजति जहाति । सः विधिः । त्वयैव भवतैव । उपपाद्यः कर्तव्य इत्यर्थः । इयं पञ्चम्यवस्था स च विधिरेकत्र वृष्टिरन्यत्र सम्भोगः । तत्कायस्य तदभावनिबन्धनत्वादिति भावः ॥ १०८ ॥ सत्यप्येवं पथि बहुविधे संविधानानुषङ्गे मुख्यस्वार्थप्रतिहतिभयादाशु गत्वाध्वशेषम् । प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्
पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ॥ १०९ ॥
१ ‘दृग्मनस्संगसंकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्छाता इत्यनंगदशा दश । २ मनुसरेत्यपि पाठः ।