________________
८६
न्तः काम आदिर्यस्य कामिवति । कासिकावरहितोपि । प्राप्तिः ।
पार्वाभ्युदयकाव्यं वक्रोऽप्यध्वा जगति स मतो यत्र लाभोऽस्त्यपूर्वो
यातुं शक्यं ननु वनपथात्कासिकाग्रार्जुनान्तात् । वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ॥ १०३ ॥ वक्र इति । यत्र मार्गे । अपूर्वः अलब्धपूर्वः । लाभः प्राप्तिः । अस्ति वर्तते । सः अध्वा मार्गः । वक्रोपि आर्जवरहितोपि । जगति लोके । मतः अङ्गीकृतो भवति । कासिकाग्रार्जुनान्तात् कासिका एव अग्रम् आदिर्यस्य कासिकाग्रः अर्जुन एव अन्तो यस्य अर्जुनान्तः कासिकाग्रश्वासावर्जुनान्तश्च तथोक्तस्तस्मात् मार्गविशेषात् । वनपथात् वनस्य पन्थाः वनपथस्तस्मात् “ऋक्पूपथ्यपोदित्यसमासान्तः ” कान्तारमार्गात् । यातुं गन्तुम् । ननु अवश्यम् । अलं भवतीति शेषः । उत्तराशां कौबेरीदिशम् । प्रस्थितस्य गन्तुमुद्यतस्य । भवतः तव । पन्थाः उजयिनीमार्गः । वक्रः अनृजुः । यदपि यद्यपि । भवति चेदपीत्यर्थः । उज्जयिन्याः विशालानगरस्य । " विशालोजयिनी समे” इत्यमरः । सौधोत्सङ्गप्रणयविमुखः सौधानामुत्सङ्गेषूपरिभागेषु प्रणयः परिचयः तस्य विमुखः परााखः । मा स्म भूः न भवेत्यर्थः । " लट् च स्मेन" इति धातोर्मास्मयोगेन लुङ् । " लङ् लुङ् च” इत्यादिना माङीयडागमनिषेधः । अलकां प्रस्थितस्य उज्जयिनीगमने मार्गो वक्रोपि उज्जयिन्यां प्रेक्षाकौतुकसम्भवावश्यं गन्तव्यमेवेति भावः ॥ १०३ ॥ जैत्रैबौणः कुसुमधनुषो दूरपातैरमोघै
मर्माविद्भिदृढपरिचित5धनुर्यष्टिमुक्तैः । विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां
लोलाऽपाङ्गैर्यदि न रमसे लोचनैर्वञ्चितः स्याः॥१०४॥२७॥ १ वञ्चितोसीत्यपि पाठः।