________________
सटीकम् ।
I
1
द्रुमाश्च कर्मधारयः । तैः परिगता परिवृता उपत्यका उपरिभूमिर्यस्येति बहुव्रीहिः । तस्मिन् । रम्योत्सङ्गे रम्य उत्सङ्गः पार्श्वे यस्येति बहुव्रीहिः । तस्मिन् । तत्र शैलेनीचैरचले । विश्रान्तः सन् अध्वश्रमरहितः सन् । वननदीतीरजाना वने अरण्ये या नद्यः तासां तीरेषु जातानि रूढानि अतिक्रमेणेत्यर्थः । तेषाम् । उद्यानानाम् आरामाणाम् । यूथिकाजालकानि मागधीमुकुलानि । “ अथ मागधी । गणिका यूथिकांबष्ठा " इत्यमरः । " कोरकजालककलिकाकुङ्मलमुकुलानि तुल्यानि " इति हलायुधः । नवजलकणैः नूतनजलबिन्दुभिः । निषिञ्चन् आर्द्राकुर्वन् । व्रज गच्छ ॥ १०१ ॥ अध्यारूढे तपति तपनेपुष्पगुल्मावकीर्णी तस्यास्तीरक्षितिमतिपतेर्नातिवेगाद्दयालुः ॥ गण्डखेदापनयनरुजाक्लान्तकर्णोत्पलानां
८५
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ १०२॥२६॥ अध्यारूढ इति ।। अध्यारूढे उपर्यारूढे । तपने सूर्ये । तपतीति तपन् तस्मिन् । इति शतृत्यः । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानाम् गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेषाम् । पुष्पलावीमुखानां पुष्पाणि लुनन्तीति पुष्पलाव्यः पुष्पावचायिकाः स्त्रियः "कर्मणोऽण्” “टिट्ठण्ढे” इत्यादिना ङी । तासां मुखानि तेषाम् । छायादानात् अनातपस्य दानात् । कान्तिदानाश्चेति ध्वन्यते । “छाया त्वनातपे कान्तौ ” इत्यमरः । कामुकदर्शनात्कामिनां मुखविकासो भवतीति भावः । क्षणपरिचितः क्षणं संस्पृष्टः । दयालुः कारुण्यशीलः सन् । " निद्रातन्द्रा- ” इत्यादिना दयाशब्दादालुत्यः । तस्याः नद्याः । नद्या इत्येव वा पाठः । पुष्पगुल्मावकीर्णी पुष्पयुता गुल्मास्तैः लतासङ्घातैः अवकीर्णी विकीर्णाम् । तीरक्षितिं तटभुवम् । नातिवेगातू मन्दगमनात् । अतिपतेः गच्छ ।। १०२ ॥