________________
८४
पार्श्वाभ्युदयकाव्यं
""
परिमृजति परिमाष्टति परिमृजन् तस्मिन् । “मृजौ शुद्धौ” शत्रुत्यः । वा अथवा । क्रीडतां विहरताम् । दम्पतीनां स्त्रीपुरुषमिथुनानाम् । " दम्पती जम्पती जायापती " इत्यमरः । निधुवनविधौ सुरतविधाने । " निधुवनं रतम् " इति " विधिविधाने दैवे च इत्यप्यमरः । स्रस्तस्रग्भिः स्रस्ताः शिथिलिताः स्रजो माला येषु तानि स्रस्तस्रजितैः । " स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ” इत्यमरः । पुष्पशय्याचितान्तैः पुष्पशय्याभिश्चितो निचितोन्तो मध्यप्रदेशो येषां तानीति बहुव्रीहिः । तैः शिलावेश्मभिः गुहाभिः । उहामानि उत्कटानि । “ गृहभेदत्विट्प्रभावा धामानि " इत्यमरः । यौवनानि यूनां भावान् । प्रथयति प्रथयतीति प्रथयन् तस्मिन् प्रकटयति । अमुष्मिन् शैले । नीचैरगे । तव भवतः । प्रेम स्नेहः । समुचितं सुयोग्यमिवेति । विद्धि त्वं जानीहि । उत्कटयौवनाः क्वचिदनुरक्ता वाराङ्गना विश्रंभव्यवहारकाङ्क्षिण्यो मात्रादिभयात् निशीथसमये विविक्तसमयदेशमाश्रित्य रमत इति बहुलमस्ति प्रसिद्धिः ॥ १०० ॥ अथार्धवेष्टितानि
1
रम्योत्सङ्गे शिखरनिपतन्निर्झरारावहृद्ये पर्यारूडद्रुमपरिगतोपत्यके तत्र शैले ।
विश्रान्तः सन्त्रज वननदीतीरजानां निषिञ्चनुद्यानानां नवजलकणैर्यूथिकाजालकानि ॥ १०१ ॥
रम्योत्सङ्ग इति ॥ शिखरनिपतन्निर्झरारावहृद्ये शिखरान्निपतन्निति कासः । स चासौ निर्झरश्चेति कर्मधारयः । तस्यारावो ध्वनिरिति तत्पुरुषः । हृदयस्य प्रियो हृद्यः वश्यपथ्य ” इत्यादिना यत्यः । हृदयस्य हृद्याण्लासः” इति हृदादेशः । तेन हृद्य इति भासः । तस्मिन् । पर्यारूढद्रुमपरिगतोपत्यके परितः आरूढाः प्रवृद्धास्ते च ते
66
१ कास इति पञ्चमीतत्पुरुषस्य संज्ञा । २ भास इतितृतीया तत्पुरुषस्य संज्ञा ।
८८