________________
सटीकम् ।
सोऽसावद्भिर्भवतु नितरां प्रीतये ते समग्रग्रावोपायैर्ग्रहगणमिवोपग्रहीतुं खमुद्यन् । भोगोद्रेकं कथयति लतावेश्मकैः सोपहारैर्यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम् ॥ ९९ ॥
66
८३
सोसाविति । यः नीचैरभिख्यो गिरिः । पण्यस्त्रीरतिपरिमलोद्गारिभिः पण्यस्त्रियो वेश्या: “ वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी " इति शब्दार्णवे । तासां रतिपरिमलो गन्धविशेषस्तं " विमर्दोत्थे परिमलः ” इत्यमरः । उद्भिरन्त्याविर्भवन्तीति रतिपरिमलोद्वारीणि तैः । सोपहारैः पुष्पोपहारादियुतैः । लतावेश्मकैः लतामयानि वेश्मानि तथोक्तानि लतावेश्मान्येव लतावेश्मकानि तैः लतागृहैः । नागराणां नगरजनानाम् । भोगोद्रेकं भोगोत्कटत्वम् । कथयति ब्रवीति । सोऽसावद्रिः स एष नीचैरद्रिः । समग्रग्रावोपायैः सम्पूर्णशैलाग्रभागैः । “ समयं सकलं पूर्णम् ” इत्यमरः । ग्रहगणं नवग्रहनिकायम् । उपग्रहीतुं स्वीकरणाय । खं व्योम । उद्यन् उद्गच्छन्निव । ते तव । प्रीतये प्रेम्णे । नितराम् अधिकम् । भवतु अप्युन्नतत्वात् प्रेमकरोस्त्विति तात्पर्यम् । अत्रोद्गारिशब्दस्य गौणार्थत्वात् न जुगुप्सावहत्वं प्रत्युत काव्यस्यार्थशोभाकरण एव । तदुक्तं दण्डिनानिष्ठधूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यां कक्षां विगाहते " इति ।। ९९ ।।
प्रेमामुष्मिस्तव समुचितं विद्धि शैले शिला
यमोत्सङ्गं परिमृजति वा पुष्पशय्याचितान्तैः । स्रस्तस्रग्भिर्निधुवनविधौ क्रीडतां दम्पतीना
मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ १०० ॥२५॥ प्रेमेति ॥ शिलायैः पाषाणायैः । व्योमोत्सङ्गम् आकाशप्रदेशम् । १ हेतूत्प्रेक्षेयमतिशयोक्त्युज्जीविता ।