________________
पार्श्वाभ्युदयकाव्यं
श्रमापनयनार्थमित्यर्थः । नीचैराख्यं नीचैरिति आख्या यस्य तम् । गिरं अद्रिम् । त्वं भवान् । अधिवसे: “ वसो नूपाध्याङ् ” इति आधारे कर्म । गिरौ वसेत्यर्थः ॥ ९७ ॥
I
८२
त्वं सेवेथाः शिखरिणममुं तां निशां मुक्तशङ्को विद्युद्दामस्फुरितरुचिमद्दीपिकाद्योतिताशः । सिद्धस्त्रीणां रतिपरिमलैर्वासिताधित्यकान्तं त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥ ९८ ॥
।
त्वमिति ॥ विद्युद्दामस्फुरितरुचिमद्दीपिकाद्योतिताशः स्फुरिता चासौ रुचिश्च तथोक्ता सास्यास्तीति स्फुरितरुचिमती सा चासौ दीपिका च तथोक्ता विद्युतां तडितां दाम माला विद्युद्दामैव स्फुरितरुचिमद्दीपिकेति कर्मधारयः । तयोद्योतिताः प्रकाशिताः आशाः दिशो यस्येति बहुव्रीहिः । मुक्तशङ्कः मुक्ता त्यक्ता शङ्का आशङ्का येनासाविति बहुव्रीहिः । त्वं भवान् । त्वत्सम्पर्कात् भवत्सङ्गमात् । प्रौढपुष्पैः प्रवृद्धकुसुमैः । " प्रवृद्धं प्रौढमेधितम् ” इत्यमरः । कदम्बैः नीपवृक्षैः । " नीपप्रियककदम्बास्तु हरिप्रियः " इत्यमरः । पुलकितमिव पुलकानि अस्य सञ्जातानीति पुलकितमिव सञ्जातपुलकवत् । सिद्धस्त्रीणां सुरयोषिताम् । रतिपरिमलैः भोगोचितगन्धद्रव्यवासनाभिः । विमर्दोत्थे परिमलो गन्धे जनमनोहरे " इत्यमरः । वासिताधित्यकान्तम् अधित्यकायाः पर्वतोर्ध्वभूमेः अन्तोवसानस्तथोक्तः । “ भूमिरूर्ध्वमधित्यका " इत्यमरः । " अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽन्तिकेऽन्तके " इति नानार्थमालायाम् । वासितोऽधित्यकान्तो यस्येति बहुव्रीहिः । अमुं शिखरिणम् । नीचैरभिधं भूधरम् । तां निशां रात्रिम् | " निशा निशीथिनी रात्रिः " इत्यमरः । सेवेथाः भजस्व ।। ९८ ॥
८८
१ मेघरूपिणो भवतस्संसर्गात्कदंबानां कुसुमितत्वमिति ध्येयं ।