________________
सटीकम् ।
८१
नद्याः । रोधः प्रान्ते तीरनिकटे । लीलास्फुरितशफराघट्टनैः लीलया स्फुरितैः प्रवृद्धैः शफराणां मत्स्यानामाघट्टनैः सङ्घर्षणैः । " शफरो ऽनिमिषः स्तिमिः " इति धनञ्जयः । आत्तपङ्कं प्राप्तकर्दमम् । विहगकलभैः पक्षिपोतैः । बद्धडिण्डीरपिण्डं बद्धो रचितः डिण्डीराणां फेनानां पिण्डः यस्य तत् । " डिण्डीरोऽब्धिकफः फेनः " इत्यमरः । सुरसं सुशोभनो रसः खादु शृङ्गारादिर्वा यस्य तत् । पयः तोयम् ।
८८
पयः क्षीरं पयोम्बु च ” इत्यमरः । सभ्रूभङ्गं भ्रुवोर्भङ्गेन रचनया सहितम् । मुखमिव आननवत् । ते तव । प्राणयात्रानिमित्तं प्राणरक्षार्थम् । पातव्यं पानार्ह भवतीति शेषः । कामिनामधरास्वादनं सुरतादतिरिच्यत इति तात्पर्यम् ॥ ९६ ॥
पीत्वा तस्यां सलिलममलं जीविकां कृत्य किञ्चिनीत्वाऽहस्त्वं क्वचिदनुमते हर्म्यपृष्ठे निषण्णः । दृष्ट्वा दृश्यं विलसितमदो नागराणां दिनान्ते
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रान्तिहेतोः ॥ ९७ ॥
""
66
पीत्वेति ॥ तस्यां वेत्रवत्याम् । अमलं निर्मलम् । " मलोऽस्त्री पापपङ्कयोः ” इत्यमरः । सलिलं जलम् । " सलिलं कमलं जलम् इत्यमरः । पीत्वा पानं कृत्वा । किञ्चित् ईषत् । जीविकां कृत्य जीवनं कृत्वा । जीविकोपनिषदिव " इति तिसञ्ज्ञा । "क्तो नञः प्यः " इति प्यादेशः । अनुमते सम्मते । कचित् कस्मिंश्चित् । हर्म्यपृष्ठे धनिनामावासपृष्ठभागे । “ हर्म्यादि धनिनां वासः " इत्यमरः । निषष्णः उपविष्टः । अहः दिनम् । " दिवाऽहर्दिवसे " इति धनञ्जयः । नीत्वा यापयित्वा । नागराणां नगरे भवाः नागरास्तेषां नागरजनानाम् । दृश्यं द्रष्टुं योग्यम् । अदः एतत् । विलसितं वर्तनम् । दृष्ट्वा प्रेक्ष्य । दिनान्ते सायाह्ने । तत्र विदिशानगरीसमीपे । विश्रामहेतोः विश्रान्तिनिमित्तम् । " विश्रमो घञ् " इति वा दीर्घः । पथ
६