________________
८०
पार्श्वाभ्युदयकाव्यं
वाताकीर्णैः कुवलयदलैर्वासितं दीर्घिकाम्भस्तीरोपान्तस्तनितसुभगं पास्यसि खादु यत्र ॥ ९५ ॥
"C
विश्रान्तिरिति ॥ सुभग भो मनोहराङ्ग । यत्र पुर्याम् । कहाराङ्कं कहाराण्येव अङ्कं चिह्नं यस्य तत् । " सौगन्धिकं तु कहारं हलकं रक्तसन्ध्यकम् । ” “उत्सङ्गचिह्नयोरङ्कः" इत्युभयत्राप्यमरः । सुरभि प्राणतर्पणम् । शिशिरं शीतलम् । सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः " इत्यमरः । स्वच्छं सुष्ठु अच्छं निर्मलम् । “त्रिष्वागाधात्प्रसन्नोऽच्छः” इत्यमरः । उत्फुल्लपद्मम् उत्फुल्लानि विकसितानि पद्मानि यस्मिन् तत् । वाताकीर्णैः मारुताकुलितैः । कुवलयदलैः । दलं पर्ण छदः पुमान् ” इत्यमरः । वासितं परिमलितम् । " भावितं वासितं त्रिषु " इत्यमरः । स्वादु मधुरम् । दीर्घिकाम्भः क्रीडासरः सलिलम् । " वापी तु दीर्घिका " इत्यमरः । तीरोपान्तस्तनितसुभगं कूलसमीपे स्तनितेन गर्जितेन सुभगं मनोहरं यथा भवति तथा । पास्यसि पानं करिष्यसि । तत्र विदेशापुर्थ्याम् । यातस्य गतस्य । ते तव । विपुला महती | विश्रान्तिः विश्रामः । स्यादिति शेषः । मन्ये एवमहं जाने ॥ ९५ ॥
66
पातव्यं ते रसिक सुरसं प्राणयात्रानिमित्तं
तस्यां लीलास्फुरितशफराघट्टनैरात्तपङ्कम् । रोधः प्रान्ते विहगकल भैर्बद्धडिण्डीरपिण्डं
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोयः ॥ ९६ ॥ २४॥
66
पातव्यमिति ॥ रसिक भो सरस । तस्यां राजधान्याम् । चलोर्म्याः चला ऊर्मयो वीचयो यस्याः सा तथोक्ता तस्याः । भङ्गऊर्मिर्वा स्त्रियां वीचिः " इत्यमरः । वेत्रवत्याः वेत्रवतीनाम१ स्वादु यस्मादित्यपि पाठः । २ चलोर्मीत्यपि पाठः ।
स्तरङ्ग