SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सटीकम् । राज्ञां राजधानीति कथ्यते " इति शब्दार्णवे । गत्वा प्राप्य । पश्येः अवलोकयेः ॥ ९३॥ सौधोत्सङ्गे क्षणमुपनिषत्तृष्ण तूष्णीं निषण्णो जालोद्गीणः सुरभिततनुषूपधूमैर्मनोज्ञैः। वारस्त्रीणां निधुवनरति प्रेक्षमाणस्त्वमेनां गत्वा सद्यः फलमपि महत्कामुकत्वस्य लब्धा ॥ ९४ ॥ . सौधोत्सङ्ग इति ॥ उपनिषत्तृष्ण उपनिषन्ती तृष्णा यस्यासौ तस्य सम्बोधनम् हे सम्भवमनोरथ । कौतुकार्थालोकनाभिलाषिनित्यर्थः । त्वं भवान् । एनां विदेशापुरीम् । गत्वा प्राप्य । सौधोत्सङ्गे राजभवनप्रदेशे । “सौधोऽस्त्री राजसदनम्” इत्यमरः । क्षणं क्षणपर्यन्तम् । “ कालाध्वनोाप्तौ” इति द्वितीया । तूष्णीं जोषम् । निषण्णः निषीदति स्म निषण्णः उपविष्टः सन् । जालोद्गीण: जालात् गवाक्षात् “जालं समूह आनायो गवाक्षक्षारकेष्वपि” इत्यमरः । उद्गीणैः निर्गतैः । मनोज्ञैः मनोहरैः । धूपधूमैः यक्षकर्दमधूमैः । सुरभिततनुः परिमलितशरीरः । " संजातं तारकादिभ्यः" इति इतस्त्यः । वारस्त्रीणां गणिकानाम् । “ वारस्त्रीगणिका वेश्या " इत्यमरः । निधुवनरतिं सुरतक्रीडाम् । प्रेक्षमाणः पश्यन् । कामुकत्वस्य विलासित्वस्य । “ विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः।” इति शब्दार्णवे । महत् फलमपि उच्चैः प्रयोजनमपि । सद्यः तत्काल एव । लब्धा प्राप्स्यसि । “ डुलभिष् प्राप्तौ” लुट् ॥ ९४ ॥ विश्रान्तिस्ते सुभग विपुला तत्र यातस्य मन्ये कहारात सुरभि शिशिरं स्वच्छमुत्फुल्लपद्मम् । १ निष्ठयूतोद्गीर्णवांतादिगौणवृत्तिव्यपाश्रयं ॥ “ अतिसुंदरमन्यत्र ग्राम्यकक्षा विगाहते" इति दंडिन उक्तेन ग्राम्यवचनाशङ्का । २ फलमविकलम् ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy