________________
पार्श्वाभ्युदयकाव्यं
।
वर्तनशीलाः हंसा येषां ते तथोक्ताः । " पोटायुवतिस्तोककतिपय " इत्यादिना कतिपयशब्दस्योत्तरत्रापि दिनशब्दस्योत्तरत्वमत्र शास्त्रस्य प्रायिकत्वात् । नूनं सत्यम् । सम्पत्स्यन्ते भविष्यन्ति ।। ९२ ।।
७८
गत्वा पश्येः पवनविचलत्केतु हस्तैर भीक्ष्णं दूरादुच्चैर्भवनशिखरैराह्वयन्तीमिव त्वाम् । सालोदग्रां श्रियमिव भुवो रूपिणीं नाभिभूतां तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीम् ॥ ९३ ॥
८८
गत्वेति ॥ पवनविचलत्केतुहस्तैः वायुना विचलत्केतव एव हस्ता येषां तैः । “ ग्रहभेदे ध्वजे केतुः " इत्यमरः ॥ उच्चैर्भवनशिखरैः उन्नतागारशृङ्गैः । अभीक्ष्णम् अनवरतम् । दूरात् दविष्ठदेशतः । त्वां भवन्तम् । आह्वयन्तीमिव आकारयन्तीमिव । " हे स्पर्धाया" " वाचि धातोः " शतृत्यः । म् नृदुग् ” इति ङी । शप्सात् इति नम् । सालोदग्रां प्राकारोन्नतां । “प्राकारो वरणः सालः” इत्यमरः । रूपिणीं रूपमस्यास्तीति रूपिणी तां । मत्वर्थ इन् । “नृदुग्" इति ङी । भुवः भूमेः । रूपिणीं मूर्ती । श्रियमिव सम्पत्तिमिव । “सम्पत्तिः श्री लक्ष्मीच" इत्यमरः । तेषां दशार्णानाम् । नाभिभूतां नाभिर्भवति स्मेति तथोक्ता ताम् मध्यगतामित्यर्थः । दिक्षु आशासु । प्रथितविदिशा लक्षणां प्रथितं प्रसिद्धं विदिशालक्षणं नामधेयं यस्यास्ताम् । लक्षणं नाम्नि चिह्ने च " इति विश्वः । राजधानीं धीयते स्म धानी राज्ञां धानी तथोक्ता । करणाधारे चानट् । टिट्ठण् ढे " इति ङी । कृद्योगाच्च षष्ठी । तां प्रधाननगरीम् । " प्रधाननगरी
66
८८
१ केतुहस्तैरित्यत्र रूपकं । २उत्प्रेक्षालंकारः आह्वयतीमिवेत्यत्र, श्रियमिवेत्यत्रा पि च । ३ राजधानीशब्दस्य काकाक्षिगोलकन्यायेन गत्वेति त्वाप्रत्यये 'पश्ये: " इत्यत्र च कर्मत्वेनान्वयः ।