________________
७४
पार्थाभ्युदयकाव्यं ___ अभ्युद्यातैस्त्वदुपगमनादुन्मनीभूय भूयः ___शुक्लापाङ्गैः सजलनयनैः खागतीकृत्य केकाः ॥ ८७ ॥
निःसङ्ग इति ॥ भूयः पुनरपि । त्वदुपगमनात् तव समीपगतात्। अभ्युद्यातैः प्रत्यागतैः । सजलनयनैः वाष्पोदकसहितलोचनैः । शुक्लापाङ्गैः शुक्लोऽपाङ्गः कटाक्षो येषां तैः मयूरैः । केकाः तद्धनीन् । स्वागतीकृत्य सुक्षेमागमनप्रश्नं कृत्वा । उन्मनीभूय उत्कीभूय । " स्यादुत्क उन्मनाः ” इत्यमरः । शिरोभिः मस्तकैः । उह्यमानः उह्यत इति उह्यमानः वहेरानशू । ध्रियमाणः । भवान् त्वम् । निःसङ्गोपि निष्परिग्रहोपि । प्रिय इव सुहृदिव । तत्रतत्र क्षितिधे क्षिति धरतीति क्षितिध्रस्तस्मिन् पर्वते । “ महीध्रः शिखरिक्ष्माभृत्" इत्यमरः । लब्धातिथ्यः अतिथ्यर्थमातिथ्यं लब्धमातिथ्यं येन सः । " ण्यौ तिथेः " इति ण्यः । प्राप्तातिथिकार्यः सन् । “अतिथिर्ना गृहागते” “क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि" इत्यमरः । व्रजितुं गन्तुम् । अनलम् असमर्थः । लब्धोपचारत्वात् तत्रतत्र कालक्षेपो भविष्यतीति तात्पर्यम् ।। ८७ ॥ तस्योत्कण्ठाविरुतिमुखरस्योत्पतिष्णोः कथञ्चित्
प्रत्यासन्नत्वदुपगमनस्यान्तरार्द्रस्वभावे । स्नेहव्यक्तिं त्वयि घनयतः केकिवृन्दस्य मन्ये
प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥८८॥२२॥ तस्येति । अन्तरार्द्रस्वभावे अन्तर्दिवस्वभावे। अन्तसाईस्वभावे इति वा भवति । स्नेहव्यक्तिं प्रेमव्यक्तिम् । घनयतः घनं करोतीति घनयन् तस्य द्रढयतः। सार्द्रभावं वर्द्धयत इत्यर्थः । उत्कण्ठाविरुतिमुखरस्य दुःखारवेण वाचाटस्य। उत्पतिष्णोः उत्पतितुमिच्छुः उत्पतिष्णुः उत्पतनशीलस्य । कथंचित् केनचित्प्रकारेण । प्रत्यासन्नत्वदुपगमनस्य