________________
सटीकम ।
७५
तव उपगमनं तथोक्तम् । प्रत्यासन्नं समीपं त्वदुपगमनं यस्य तस्य । केकिवृन्दस्य मयूरनिकायस्य । प्रत्युद्यातः प्रत्यागतः । भवान् त्वम् । कथमपि केनापि प्रयुक्तेन । आशु शीघ्रेण । "अविलम्बितमाशु च” इत्यमरः । गन्तुं गमनाय । व्यवस्येत् निश्चिनुयात् । भवच्छब्दप्रयोगात् प्रथमपुरुष इति । मन्ये जाने ॥ ८८ ॥
विन्ध्योपान्तात्तव गतवतो नातिदूरे दशार्णा रम्यारामा नयनविषये संपतिष्यन्ति सद्यः । त्वत्सान्निध्यात्कलुषितपयः पूर्णशालेयवप्राः
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः ॥ ८९ ॥
विन्ध्योपान्तादिति ॥ विन्ध्योपान्तात् विन्ध्याचलसमीपात् । गतवतः यातवतः । तव भवतः । सूचिभिन्नैः सूच्या भिद्यन्ते स्म सूचि - भिन्नानि तैः निबिडभूतैरित्यर्थः । केतकैः केतककुसुमैः । पाण्डुच्छायोपवनवृतयः उपवनानां वृतयस्तथोक्ताः “ प्रान्ततो वृतिः " इत्यमरः । पाण्ड्डी छाया कान्तिः यासां तास्तथोक्ताः पाण्डुच्छाया उपवनवृतयो येषां ते तथोक्ताः । त्वत्सान्निध्यात् तव मेघस्य सामीप्यात् । कलुषितपयः पूर्णशालेयवप्राः कलुषितपयसा पङ्काविलोदकेन पूर्णाः शालीनामुद्भवोचिताः शालेयाः “ व्रीहिशालेर्दण् ” ते च ते वप्राः केदाराश्च तथोक्तास्ते येषां ते कलुषितपयः पूर्णशालेयवप्राः । " कलुषोऽनच्छ आविल: " " क्षेत्रं त्रैहेयशालेयं व्रीहिशाल्युद्भवोचि तम् ।” “पुंनपुंसकयोर्वप्रः क्षेत्रं केदार इत्यपि" इत्यमरः । रम्यारामाः रम्या आरामा उपवनानि येषां ते तथोक्ताः । आरामः स्यादुपवनम् ” इत्यमरः । दशार्णाः दशार्णाख्या देशाः । नातिदूरे समीपे । अलुक्समासः । नयनविषये नेत्रगोचरे । सद्यः तदैव । संपतिष्यन्ति संप्राप्स्यन्ति ॥ ८९ ॥
66