________________
सटीकम् ।
७३
गम्भीरत्वमिति ।। सखे भो मित्र । अधुना इदानीम् । मदीयैः मया कृतैः । ध्यानहेतोः योगनिमित्तस्य । संक्षोभाणां संचलनानाम् । विरचनशतैः विरचनानां करणानां शतैरपि अनेकैरपि । अदृश्यम् । अगोचरम् । यदिदं गम्भीरत्वं गाम्भीर्यम् । लक्ष्यते दृश्यते । तत् गम्भीरत्वम् । दृष्ट्वा । मत्प्रियार्थं मद्वनितानिमित्तम् । द्रुतं शीघ्रम् । यियासोरपि यातुमिच्छोरपि । तव ते । अतिधैर्यात् बहुधीरत्वात् । घनतया जडतया । घनो मेघे मूर्त्तिगुणे त्रिषु मूर्ते निरन्तरे इत्यमरः । मान्द्यमेव मन्दत्वमेव । अहम् उत्पश्यामि अहं तर्कयामि ।। ८५ ।।
66
13
भूयश्चाहं नवजलधराधौतसानुप्रदेशे नृत्यत्केकिध्वनिमुखरिते स्वागतं तन्वतीवं । पाद्यं चोच्चैर्वहति शिरसा निर्झराम्भोऽभिशङ्के कालक्षेपं ककुभसुरभौ पर्वतेपर्वते ते ॥ ८६ ॥
1
भूय इति ॥ भूयश्च पुनरपि । नवजलधराधौतसानुप्रदेशे नववा रिवाहेणाधौतः सानोर्वप्रस्य प्रदेशो यस्य तस्मिन् । नृत्यत्केकिध्वनिमुखरिते नृत्यन्मयूरावेण मुखरिते वाचाटिते । निर्झराम्भः प्रवाहोदकम् । पाद्यं च पादोदकम् । " पाद्यं पादाय वारिणि " इत्यमरः । शिरसा मस्तकेन । उच्चैः परम् । वहति वहतीति वहन् तस्मिन् । ककुभसुरभौ अर्जुनवृक्षपरिमले । “रुद्रद्रुः ककुभोऽर्जुनः” इत्यमरः । स्वागतम् अभ्यागतप्रतिपत्तिम् । तन्वति तनोतीति तन्वन् तस्मिन् I इव यथा तथा । पर्वते पर्वते गिरौगिरौ । ते तव । कालक्षेपं कालविलम्बनम् । अहम् अभिशङ्के आशङ्कां करोमि ॥ ८६ ॥
निःसङ्गोपि व्रजितुमनलं तत्रतत्र क्षितिधे
लब्धातिथ्यः प्रिय इव भवानुह्यमानः शिरोभिः ।
१ उत्प्रेक्षा ।