________________
७०
पार्वाभ्युदयकाव्यं हरित हरितवर्ण श्यावम् अरुणमिति भावः । “ पालाशो हरितो हरित्” “श्यावः स्यात्कपिशः” इति चामरः । हरितं च तत्कपिशं च हरितकपिशम् । “वर्णैर्वर्णः” इति समासः। नीपं स्थलकदम्बकुसुमम्। "अथ स्थलकदम्बके । नीपः स्यात्पुलकः श्रीमान्प्रावृषेण्यो हरिप्रियः" इति शब्दार्णवे । दृष्ट्वा खादित्वा । प्रोषितानां योषितः नार्यः । त्वत्सान्निध्यं त्वत्सामीप्यम् । अनुमिमते अनुमानयन्ति निश्चिन्वतीर्थः । कारणस्य कारणरूपस्य साध्यस्य । अनुमानं परिज्ञानम् । रूढं प्रसिद्धम् । येषां तार्किकाणां स्वयं स्वेन अधिगतात् निश्चितात् कार्यलिंगात् कार्यरूपाल्लिंगात् कार्यहेतोरित्यर्थः । भवतीति शेषः । तत् तस्मात् । इयमभिमा अयमभिमानः । युक्तरूपेति विशिष्टेति मन्ये जाने ॥ ८१॥ मध्येविन्ध्यं वनभुवमिया यत्र दृष्ट्वा शिलीन्द्रा
नध्यारूढा ननु वनममी पर्वतीया मनुष्याः। त्वामायातं कलयितुमलं त्वत्पयोबिन्दुपातै
राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ॥ ८२ ॥ मध्येविन्ध्यमिति ॥ यत्र पर्वते । अमी एते । पर्वतीयाः पर्वते भवास्तथोक्ताः । “ पर्वतादन्नरः” इति छत्यः । मनुष्याः मानुषाः । “ मनोर्याण्षक् च” इति षगागमयुक्तो यप्रत्ययः । त्वत्पयोबिन्दुपातैः तव तोयबिन्दूनां पतनैः अनुवनम् वनंवनमनु तथोक्तम् । “भागिनी च प्रतिपर्यनुभिः” इति वीप्सायां द्वितीया। अध्यारूढान् उत्पन्नान् । शिलीन्द्रान् अङ्करविशेषान् । “ कन्दल्यामुच्छिलीन्द्रा स्यात् ” इति शब्दार्णवे । अनुकच्छम् कच्छेष्वनूपेष्वनु अनुकच्छम्। " दीर्धेनुः” इत्यव्ययीभावः । “ जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः” इत्यमरः । आविर्भूतप्रथममुकुलाः आविर्भूताः प्रादुभूताः प्रथमाः प्रथमोत्पन्नाः मुकुला यासांताः । “कुड्मलो मुकुलोऽ