________________
सटीकम् । स्त्रियाम्" इत्यमरः । कन्दलीः भूकन्दलीरपि । “द्रोणिपर्णी स्निग्धकन्धी कन्दली भूकदल्यपि” इति शब्दार्णवे । दृष्ट्वा प्रेक्ष्य । आयातमागतम् । स्वां कलयितुं निश्चेतुम् । कल इति धातुः कवीनां कामधेनुरिति वचनात् प्रकृतार्थप्रदः । अलं समर्था भवति । तत्र मध्येविन्ध्यं विन्ध्यस्य मध्यं तथोक्तम् । “पारे मध्येन्तःषष्ठयाः " इत्यव्ययीभावे एत्वनिपातः । वनभुवं वनभूमिम् इयाः। यायाः॥८२॥
त्वामासन्नं सपदि पथिका ज्ञातुमर्हन्त्यकाले
श्रुत्वा केकाध्वनिमनुवनं केकिनामुन्मदानाम् । बर्हक्षेपं नटितमपि च प्रेक्ष्य तेषां सलीलं
दग्धारण्येप्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः ॥ ८३ ॥
त्वामिति ॥ अनुवनम् अनुवनान्यनुवनम् अनुवनेषु । उन्मदानां संतुष्टानाम् । केकिनां मयूराणाम् । केकाध्वनि केका इति ध्वनिस्तं केकारवम् । “केका वाणी मयूरस्य" इत्यमरः । श्रुत्वा तेषां मयूराणाम् । “ सलील लीलया सह वर्तत इति तथोक्तं तत् । बहक्षेपं बर्हाणां क्षेपः प्रसारणं यस्मिन् तत् । नटितमपि नर्तनमपि । प्रेक्ष्य च दृष्ट्वा च । दग्धारण्येषु दग्धानि च तान्यरण्यानि च तेषु । उाः भुवः । अधिकसुरभिम् अधिकघ्राणतर्पणम् । गन्धं परिमलम् । आघ्राय च गृहीत्वा च । पथिकाः पान्थाः । “ पान्थः पथिकः” इत्यमरः । अकाले अनवसरे । आसन्नं समीपगतम् । त्वां भवन्तम् । सपदि मङ्क । ज्ञातुम् अर्हन्ति योग्या भवन्ति । जानन्तीत्यर्थः ॥ ८३ ॥
१ जरवेत्यपि पाठः । २ बर्हितांडवेन भूसौरभेण च आकालि कम् मेघरूपभावत्कोदयं पांथा निश्चिन्वंतीत्यर्थः ।