________________
. सटीकम् । . " तटिनी हादिनी धुनी” इत्यमरः । जलानि अपः । त्वम् । आहरेः स्वीकुर्याः । लघिमघटितां लघोर्भावः लघिमा घटितां रचिताम् । रिक्ततां दरिद्रत्वम् । उत्सृज्य त्यक्त्वा । अलं शक्त्या । “ अलंभूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । पूर्णः पुष्टः । एधि भव । " अस भुवि” इति धातोलिटि । “ साध्येधिजहि" इति निपातनादेधिभावः । मध्यमपुरुषैकवचनम् । रिक्तः अन्तःसारशून्यः । सर्वः । लघुः अगुरुः । भवति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता । गौरवाय अप्रकम्प्यत्वाय भवतीत्यर्थः ॥ ८० ॥ कार्याल्लिङ्गात्स्वयमधिगतात्कारणस्यानुमानं
रूढं येषां तदियमभिमा युक्तरूपति मन्ये । त्वत्सान्निध्यं यदनुमिमते योषितः प्रोषितानां
नीपं दष्वा हरितकपिशं केसरैरर्धरूद्वैः ॥ ८१ ॥ कार्यादिति ॥ यत् यस्मात् । अर्धरूद्वैः एकदेशोद्भवैः । केसरैः कि जल्कैः । “ कि जल्कः केसरोऽस्त्रियाम्" इत्यमरः । हरितकपिशं
१ लोकेपि दग्धहस्तो दरिद्रः तिरस्कारविषयो भवति पूर्णकामो धनी मान्यो भवतिहि। २ दृष्टुति पाठ एव साधीयान् अनुमानप्रकारश्च। उदगान्मेघो नीपकुसुमदर्शनात् प्रसिद्धवर्षाकाल इव अयमेवांशः चतुरशीतितमे श्लोके स्फुटी भविष्यति। स्थितस्यैव दष्टुतिपाठस्यैव गतेश्चितने कृते सिध्यत्येवं लोके हि कारणात् कार्य मनुमेयमित्येषा युक्तिर्वरीवर्तते । तामुल्लंघ्य तार्किकैः कार्यात्कारणमनुमेयमिति यदंगीकृतं तत्प्रकृते सत्यापयमंशः (?) अनुमानप्रकारश्च अयं नीपकुसुमभक्षणजन्यमदाभाववान् अस्मत्सान्निध्येपि मदनानुकूलचेष्टादर्शनात् प्रसिद्धषंढवत् अथवा अयं नीपकुसुमभक्षणोत्तरकालीनास्मत्सानिध्यवान् मदनानुकूलचेष्टादर्शनात् इति सुंदरीभिरनुमीयते । अनुमानद्वयेनापि सान्निध्यरूपकार्यात्मकहेतोः कारणरूपसाध्यस्य नीपकुसुमभक्षणस्य गमकत्वं भवतीति यथाकथंचिनिर्वाह्यम् । नीपकुसुमभक्षणेन मदस्य लोपो भवतीत्यायुर्वेदे प्रथितं प्रोषितांगनास्त्वदीयचेष्टादर्शनेन षंढस्त्वयमिति निश्चिन्वंतीति हृदयम् ।