________________
सटीकम् । तत्स्वादीयः सुरभि शिशिरं प्रार्थनीयं मुनीनां
निर्जन्तुत्वादुपलनिपतन्निर्झराम्भःप्रकाशम् । तस्याः क्षुण्णं वनकरिकराघट्टनरप्यजस्रं
जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ॥ ७८ ॥ तदिति ॥ स्वादीयः प्रकृष्टं स्वादु । “ त्रिविष्टं मधुरं स्वादु" इत्यमरः । सुरभि सुगन्धि । शिशिरं शीतलम् । “ सुषीमः शिशिरो जडः” इत्यमरः । उपलनिपतन्निर्झराम्भःप्रकाशम् उपले दृषदि निपततीति निपतत् निर्झरस्य प्रवाहस्याम्भः जलम् उपलनिपतच्च तत् निर्झराम्भश्च तस्य प्रकाशो व्यक्तिर्यस्य तत् । वनकरिकराघट्टनैः विपिनद्विरदकरास्फालनैः । अजस्रम् अनवरतम् । " नित्यानवरताजस्रम् ” 'इत्यमरः । क्षुण्णं माईतम् । जम्बूकुञ्जप्रतिहतरयं जम्बूनां जम्बूवृक्षाणां कुजैः प्रतिहतः प्रतिबद्धो रयो वेगो यस्य तत् । “रंहस्तरसी तु रयः स्यदः” इत्यमरः । सुखवेगमित्यर्थः । अनेन लघुत्वं कषायभावना च व्यज्यते । निर्जन्तुत्वात् निर्गता जन्तवः प्राणिनो यस्मात् तत् तथोक्तम् तस्यभावो निर्जन्तुत्वं तस्मात् प्रासुकत्वात् । मुनीनां यतीनाम् । प्रार्थनीयं प्रार्थितुं योग्यम् । तस्याः नर्मदानद्याः। तत्तोयं नीरम् । “ अम्भोर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ” इत्यमरः । आदाय गृहीत्वा । गच्छेः यायाः ॥ ७८ ॥ हृत्वा तस्या रसमपहताशेषमार्गश्रमस्त्वां
व्योमव्रज्यां पुनरविहतप्रक्रमां संदधीथाः॥ प्राप्तस्थैर्य सपदि जलवानप्यसौ यद्गरीयान
न्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वाम् ॥ ७९ ॥ हृत्वेति ॥ घन हे मेघ । यत् यस्मात् । असावनिलः एष पवनः । १ उपलास्फालनालघुत्वं जंबूवृक्षसंसर्गात्कषायसंस्कार इत्यर्थः ।