________________
पार्थाभ्युदयकान्यं - दत्तमिति ॥ मुनिमत भो मुनिभिः सम्मत । चिरं बहुकालेन । वासनावासितस्य वासनया संस्कारेण साम्यतयेति यावत् । वासितस्य संस्कृतस्य । ते तव । प्रायोग्यमिव प्रयोगयोग्यमिव । पुष्करेण पुष्कराग्रेण । “ पुष्करं करिहस्ताग्रे वाद्यभाण्डे मखे जले” इत्यमरः । उत्क्षिपद्भिः उपरिसेचयद्भिः । जलमित्यभिज्ञायते । वन्यैः वने जातैः । कलभकैः कलभा एव कलभकास्तैः । स्वार्थे कः । हस्तिपोतैः । “ कलभः करिशावकः ” इत्यमरः । दत्तं वितीर्णम् । अथवा न चेत् । ग्रावक्षुण्णोच्चलितं ग्राणि उपले क्षुण्णम् आस्फालितं तच्च तदुच्चलितमुद्गतं च तथोक्तम् । तिक्तैः सुगन्धिभिः तिक्तरसवद्भिश्च “ तिक्तो रसे सुगन्धौ च ” इति विश्वः । वनगजमदैः वन्येभमदजलैः । वासितं सुरभीकृतम् । “भावितं वासितं त्रिषु ” इत्यमरः । अवार्य परैरहार्यम् । तस्याः नर्मदानद्याः । वारि अम्भः । त्वं भवान् । वान्तवृष्टिः उद्गीर्णवर्षः सन् । प्राक्तनं जलं परिहरन्नित्यर्थः । अनेन श्रमो व्यज्यते । हरेः स्वीकुरु । लिङ् । प्रकारान्तरेणाप्यन्वयः क्रियते । मुनिमत भो यतीन्द्र । चिरं बहुकालम् । वासनावासितस्य संस्कारेण संस्कृतस्य । ते तव । प्रायोग्यं प्रयोगोचितम् । पुष्करेण निजकराग्रेण । उत्क्षिपद्भिः उत्सेचयद्भिः । वन्यैः कलभकैः वनकरिशावकैः । दत्तमिव वितीर्णवत् । ग्रावक्षुण्णोच्चलितं शिलास्फालितोद्गतम् । अत्र साम्यं लक्ष्यते । अथ वा न चेत् । तिक्तैः सुगन्धिभिः तिक्तरसप्रधानैश्च । वनगजमदैः विपिनकरिमदजलैः । वासितं भावितम् । अवार्य निरुपद्रवम् । तस्याः नर्मदायाः । वारि उदकम् । त्वं भवान् । वान्तवृष्टिः उद्गीर्णवर्षः सन् । हरेः गृहाण । उभयत्रापि प्रासुकत्वं व्यज्यते ॥ ७७ ।।
१ सुकं तत्तं पक्कं आमललवणेन मिस्सियं दब्बं । जंदेण पीडियं वा तस्सव्वं पासुअं भणिअं। इति परमागमे प्रतिपादितत्वात् शिलास्फालनाच्छुद्धं जलं ' मुनेर्भवत उपादेयमित्यभिप्रायः ।