________________
सटीकम् ।
६५ वृन्दम् ” इत्यमरः । आत्ततीरोपसेवां व्याप्ततीरप्रदेशाम् । रेवां नर्मदां नदीम् । “ रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका" इत्यमरः। द्रक्ष्यसि प्रेक्ष्यसि ॥ ७५ ॥ तां तस्याद्ररुपतटवनं विप्रकीर्णप्रवाहां
तीरोपान्तस्खलनविषमोद्वत्तफेनां समीनाम् । पश्य प्रीत्या गिरितटगजक्षोभभिन्नोर्मिमालां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥७६ ॥ १९ ॥ तामिति ॥ तस्याद्रेः विन्ध्यस्याचलस्य । उपतटवनं तटवनस्य समीपम् उपतटवनम् तस्मिन् । “ अदन्ताव्ययीभावत्वात्सप्तम्याः " इति अम् । तटवननिकटे इत्यर्थः । विप्रकीर्णप्रवाहाम् अतिविस्तृतनिर्झराम् । "प्रवाहो निर्झरो झरः ” इत्यमरः । तीरोपान्तस्खलनविपमोद्वत्तफेनां तीरसमीपे गतिवैषम्यण उद्गतडिण्डीरपिण्डाम् । " डिण्डीरोऽब्धिकफः फेनः ” इत्यमरः । समीनां मीनैमत्स्यैः सह वर्तत इति ताम् । गिरितटगजक्षोभभिन्नोर्मिमालाम् । गिरेः नगस्य तटस्य गजानां च क्षोभेण सङ्घट्टनेन भिन्ना विदारिता ऊर्मिमाला तरङ्गपतिर्यस्यास्ताम् । तां नर्मदाम् । गजस्य नागस्य । अङ्गे शरीरे । भक्तिच्छेदैः भक्तयो रचना रेखा इति यावत् " भक्तिर्निषवणे भागे रचनायाम्” इति शब्दार्णवे । तासां छेदैः भङ्गिभिः। विरचितां भूतिमिव शृङ्गारमिव भस्मेव वा । “भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि सम्पदि ” इति विश्वः । प्रीत्या तोषेण । पश्य प्रेक्षस्व ॥७६॥ दत्तं वन्यैरिव कलभकैः पुष्करेणोत्क्षिपद्भिः
प्रायोग्यं ते मुनिमत चिरं वासनावासितस्य । ग्रावक्षुण्णोच्चलितमथवा त्वं हरेर्वार्यवार्य
तस्यास्तिक्तैर्वनमजमदैर्वासितं वान्तवृष्टिः ॥ ७७ ॥