________________
६४
पार्श्वभ्युदयकाव्यं जानीहि । “ इण् गतौ ” लेट् । कालक्षेपं वेलाविलम्बनम् । विसृज त्यज । तोयोत्सर्गद्रुततरगतिः जलमोचनेन शीघ्रगमनः सन् । लघुभूत इति भावः । तत्परम् आम्रकूटादुत्तरम् । वर्त्म अध्वानम् । तीर्णः प्रस्थितः । गरिमालम्बनं गुरोर्भावो गरिमा । “पृथ्व्यादेविमन् ” इति भाव इमन् । “ प्रियस्थिर-” इत्यादिना गुरुशब्दस्य गरादेशः । गरिम्णः आलम्बनम् आश्रयो यथा तथा । तोयोत्सर्गेण लघुत्वेपि माहात्म्यमनुत्सर्जनीयमित्याशयः । सद्यः तत्क्षण एव । याहि गच्छ ॥ ७४ ॥ गत्वोदीची भुव इव पृथु हारयष्टिं विभक्तां
वन्यभानां रदनहतिभिर्भिन्नपर्यन्तवप्राम् । वीनां वृन्दैर्मधुरविरुतैरात्ततीरोपसेवां
रेवां द्रक्षस्युपलविषमे विन्ध्यपादे विशीर्णाम् ॥ ७५ ॥ गत्वेति ॥ उदीची कौबेरी दिशम् । “ उत्तरा दिगुदीची स्यात् " इत्यमरः । गत्वा।भुवः भूदेव्याः । विभक्तां विद्विचिताम् ? पृथु महतीम् । हारयष्टिमिव हारलतावत् । उपलविषमे उपलैः पाषाणैः " पाषाणप्रस्तरग्रावोपलाश्मानः” इत्यमरः । विषमे विकटे । विन्ध्यपादे विन्ध्यनाम्नोऽद्रेः पादे प्रत्यन्तपर्वते । “ पादाः प्रत्यन्तपर्वताः " इत्यमरः । विशीर्णा समन्ततो विस्तृताम् । एतेन कस्याश्चित्कामुक्याः प्रियतमचरणे पातोपि ध्वन्यते । वन्येभानां कान्तारमतङ्गजानाम् । रदनहतिभिः दन्तघातैः । भिन्नपर्यन्तवां स्फुटितसमीपकूलाम् । मधुरविरुतैः श्रुतिसुभगध्वनियुतैः । वीनां पक्षिणाम् । “विः पक्षिपरमात्मनोः ” इत्यभिधानात् । वृन्दैः निकरैः । “ स्त्रियां तु संहति
१ 'समासोक्तिः परिस्फूर्तिः प्रस्तुते प्रस्तुतस्य चेत् ' इति लक्षणात् रेवा विंध्यवर्णनप्रस्तावे तद्गतस्त्रीपुंल्लिंगखारस्याच पादविशीर्णपदयोः चरणपतनार्थकरणेन चाप्रस्तुतपूर्वार्थो गम्यते ।