________________
सटीकम् । वधूभिः भुक्तः अनुभूतः कुञ्जः लतालयो यत्र तस्मिन् । एतेन तत्र विनोदोस्तीत्यर्थः ।तस्मिन्नाम्रकूटे । मुहूर्त स्वल्पकालम् । न तु चिरकालं स्वकार्यविरोधादिति भावः। “मुहूर्तः स्वल्पकाले स्याद्धटिकाद्वितयेऽपि च" इति शब्दार्णवे । स्थित्वा विश्रम्य । रम्यश्रोणीः रम्या मनोहरा श्रोणिः कटिर्यासां ताः । “ कर्टिनितम्बः श्रोणिश्च जघनम्” इति धनञ्जयः । विकटदशनाः विकटाः असदृशाः दशना रदना यासां ताः । “ रदना दशना दन्ताः " इत्यमरः । प्रोथिनीः प्रोथोस्त्यासामिति तथोक्तास्ताः लम्बोष्ठीः । दीर्घघोणाः दीर्घनासाः । “ घोणा नासा च नासिका" इत्यमरः । पीनोत्तुङ्गस्तनतटभरात् उत्तुङ्गौ च तौ स्तनौ च तथोक्तौ पीनौ च तावुत्तुङ्गस्तनौ च तथोक्तौ “पीनपीनी तु स्थूलपीवरे” इत्यमरः “उच्चैरुच्चावचं तुङ्गमुच्चमुन्नतमुच्छ्रितम्” इति धनजयः । तयोस्तटं प्रदेशस्तस्य भरो भारस्तस्मात् । “ भरोऽतिशयभारयोः ” इति भास्करः । मन्दमन्दं शनैःशनैः । प्रयान्तीः गच्छन्तीः । ग्रावक्षुण्णप्रशिथिलनखाः ग्राव्णा शिलया क्षुण्णाः कर्षिता अत एव प्रशिथिलाः अदृढाः नखाः नखरा यासां ताः । वाजिवकाः वाजिन इव वक्रं यासां ताः सुरविशेषकान्ताः । प्रपश्यः प्रेक्षस्व ॥ ७३ ॥
तस्मादद्रेः कथमपि भवान्मुक्तकुञ्जः प्रयायाद्
रम्यस्थानं त्यजति न मनो दुर्विधानं प्रतीहि । कालक्षेपं विसृज गरिमालम्बनं याहि सद्यस्तोयोत्सर्गद्रुततरगतिस्तत्परं वर्म तीर्णः ॥ ७४ ॥
तस्मादिति ॥ तस्मादद्रेः आम्रकूटात् । भवान् त्वम् । कथमपि कष्टेनापि । मुक्तकुञ्जः मुक्तः कुञ्जो येन सः सन् । प्रयायात् गच्छेत् । मनः चित्तम् । दुर्विधानं कर्तुमशक्यम् । लब्धुमशक्यमित्यर्थः । रम्यस्थानं मनोहरप्रदेशम् । न त्यजति न जहाति । इति प्रतीहि