________________
६२
पार्धाभ्युदयकाव्यं नानापुष्पद्रुमशबलितोपत्यकः सोऽतिमात्रं
मध्येश्यामः स्तन इव भुवः शेषविस्तारपाण्डः ॥७२॥१८॥ त्वयीति ॥ तदानीं तत्समये । आनीलत्विषि नीलातौ । त्वयि भवति । शेखरत्वं शेखरताम् । “ शिखावापीडशेखरौ” इत्यमरः । दधाने वहमाने सति पर्वतस्य शिखरोपमे सतीत्यर्थः । नानापुष्पद्रुमशबलितोपत्यकः नानाविधानि पुष्पाणि येषां ते ते च ते द्रुमाश्च तैः शबलिता मिश्रिता " चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे” इत्यमरः । उपत्यका नगासन्नभूमिर्यस्य सः । “ उपत्यकानेरा. सन्ना भूमिः" इत्यमरः । मध्येश्यामः मध्ये शिखरे श्यामः कृष्णवर्णः । ' अलुक्समासः । ' शेषविस्तारपाण्डुः मध्यादन्यत्र विस्तारे परितः प्रदेशो “विस्तारो विग्रहो व्यासः" इत्यमरः । पाण्डुः हरिणवर्णः । “ हरिणः पाण्डुरः पाण्डुः” इत्यमरः । असौ गिरिः एष आम्रकूटः । भुवः वसुन्धरादेव्याः । स्तन इव पयोधर इव । अमरमिथुनश्लाघनीयां निर्जरद्वन्द्वैः स्तुत्याम् । शोभां छविम् । “ शोभा कान्तिर्युतिश्छबिः " इत्यमरः । अतिमात्रं निर्भरम् । “ अतिमात्रोद्गाढनिर्भरम्" इत्यमरः । एष्यति यास्यति ॥ ७२ ॥ रम्यश्रोणीर्विकटदशनाः प्रोथिनीर्दीर्घघोणाः
पीनोत्तुङ्गस्तनतटभरान्मन्दमन्दं प्रयान्तीः। ग्रावक्षुण्णप्रशिथिलनखा वाजिवक्राः प्रपश्ये
स्तैस्मिन्स्थित्वा वनचरवधूभुक्तकुळे मुहूर्तम् ॥ ७३ ॥ रम्यश्रोणीति ॥ वनचरवधूभुक्तकुजे वने चरन्तीति वनचरास्तेषां १ आङ: अभिव्याप्त्यर्थकत्वमत अतोधिकनीलकांतिमतीत्यर्थः । २ भूशब्दस्य लक्षितलक्षणया वसुंधरेत्यर्थकरणेन भवदभिमतायाः भूतपूर्वभवेनुभुक्तायाः मदीयपन्याः स्तन इवाम्रकूटगिरिरयं भासते कीलेति मर्मतोदकवचनम् । ३ 'स्थित्वा तस्मिन्' इत्यपि पाठः।