________________
सटीकम् ।
६१
त्वयि भवति । शिखरं शृङ्गम् । आरूढे सति । " यद्भावो भावलक्षणम् " इति सप्तमी । अचलः सोद्रिः । मुग्धविद्याधरीणां मुग्धानां विद्याधरयोषितां । वलयिततनुः मंडलितकायः । कृष्णाहिः कृष्णसर्पः । अस्य पर्वतस्य। मध्यमस्याधिशेते किं मध्ये तिष्ठति किम् । “शीस्थासोधिराधारः ” इत्याधारे द्वितीया । अथवा भूभृतः गिरेः । नीलो - त्पलविरचितं कुवलयघटितम् । शेखरं माल्यम् । " शिखास्वापीडशेखराः " इत्यमरः । स्यात्किम् । इत्याशङ्कां एवम् आशंकाम् । पूरा अग्रे । जनयति उत्पाद्यति ।। ७० ।।
अध्यासीनः क्षणमिव भवानस्य शैलस्य कुञ्जं
लक्ष्मीं रम्यां मुहुरुपहरन्निन्द्रनीलोपलस्य । खेनोन्मुक्तो भुवमिव गतः श्लक्ष्णनिर्मोकखण्डो
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम् ॥ ७१ ॥
अध्यासीन इति ॥ भवान् त्वम् । अस्य शैलस्य आम्रकूटस्य । कु निकुञ्जम् | क्षणमिव । इवशब्दो वाक्याऽलङ्कारे । अध्यासीनः । “ शीस्थासोः ” इति द्वितीया । निकुञ्जनिविष्टः सन् इत्यर्थः । मुहुः पुनः । इन्द्रनीलोपलस्य इन्द्रनीलमणेः । रम्यां लक्ष्मीं शोभां तुलामित्यर्थः । उपहरन् उपवहन् । खेन गगनेन । “ अनन्तं सुरवर्त्म खम् ” इत्यमरः । उन्मुक्तः त्यक्तः सन् । भुवं भूमिम् । गतः प्राप्तः । श्लक्ष्णनिर्मोकखण्ड इव दुभ्रकचुकलेशवत् । " श्लक्ष्णं द कृशं तनु” “समौ कभ्चुकनिर्मोकौ” इत्यमरः । अमरमिथुनप्रेक्षणीयां देवमिथुनैर्दर्शनीयाम् । अवस्थां दशाम् । नूनम् अवश्यम् । यास्यति गमिष्यति । भवच्छब्दप्रयोगात् प्रथमपुरुषः ॥ ७१ ॥
त्वय्यानीलत्विषि गिरिरसौ शेखरत्वं दधाने शोभामेष्यत्यमरमिथुनश्लाघनीयां तदानीम् ।