________________
पार्धाभ्युदयकाव्यं रिति वा पाठः । स्वैः स्वकीयैः । बहुविलसितैः बहुधा निर्मितैः । निर्झरैः जलप्रवाहैः । “ प्रवाहो निर्झरो झरः ” इत्यमरः । आत्तकान्तिः धृतद्युतिः । धुततटवनोपान्तदेशैः धुताः कम्पिताः तटवनस्य उपान्तदेशा यैस्तैः । मरुद्भिः वायुभिः । प्रत्युद्यातः प्रत्युद्गतः सन् । नितान्तं गाढम् । “तीत्रैकान्तनितान्तानि गाढबाढदृढानि च" इत्यमरः । साधु सम्यक् । मू| शिरसा । वक्ष्यति उद्धरिष्यति । " वहि प्रापणे” लट् । दत्तपाद्यः कृताऽभ्यागतप्रतिपत्तिः सन् मानयिष्यतीति तात्पर्यम् ॥ ६५ ॥ त्वय्यासन्ने विरलविरलान्प्रावृषेण्योदबिन्दून्
वस्त्रकोपं विसृजति तथाऽप्यश्मवेश्मोदरीषु । सिद्धद्वन्द्वं सुरतरसिकं प्रान्तपर्यस्तवीणं
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ॥ ६६ ॥ त्वयीति ॥ आसन्ने समीपगते । त्वयि भवति। विरलविरलान् सान्तरसान्तरान् । वीप्सायां द्विः । प्रावृषेण्योदबिन्दून् प्रावृद्कालभवजलकणान् । वस्त्रकोपं यावता वस्त्रं कोपितमाद्र भवति तावत् । विसृजति वर्षति सति । " चेलार्थात् नोपीः” इति विकल्पितीणम् । तथापि आम्रकूटः आम्राश्शूताः कूटेषु शिखरेषु यस्य सः । आम्रकूटो नाम सानुमान्पर्वतः । अश्मवेश्मोदरीषु शिलासद्ममध्येषु। गुहास्वित्यर्थः । सुरतरसिकं निधुवनप्रीतम् । प्रान्तपर्यस्तवीणं प्रान्ते समीपे पर्यस्ता विसृष्टा वीणा यस्य तत् । अध्वश्रमपरिगतं प्राप्तम् । सिद्धद्वन्द्वं देवविशेषमिथुनम् । वक्ष्यति भणिष्यति । मेघागमनस्य रतिहेतुत्वात् सुरतप्रियं सिद्धमिथुनं सूचयतीति भावः ॥ ६६ ।। त्वामुत्तुङ्गैः शिखरतरुभिः सहीष्यत्यवश्यं
विश्रान्त्यर्थ प्रियमुपगतं सोऽचलस्तुङ्गवृत्तिः।।