________________
सटीकम् ।
यद्यौत्सुक्यं तव जनपदप्रेक्षणे दीर्घकालं प्रत्यावृत्तस्वविषयर तेरस्ति भिक्षा कदाचित् । तत्पेपीयस्व परिसरितं दक्षिणाशां भ्रमित्वा किञ्चित्पश्चाद्रज लघुगतिर्भूय एवोत्तरेण ॥ ६४ ॥ १६ ॥
५७.
1
1
यदीति । तव भवतः । दीर्घकालं बहुकालपर्यन्तम् । जनपदप्रेक्षणे देशदर्शने । औत्सुक्यं लाम्पट्यम् । यदि भवति चेत्तर्हि । प्रत्यावृत्तस्त्रविषयरतेः प्रत्यावृत्ता पुनरागता स्वविषयरतिश्चक्षुरादीन्द्रियासक्तिस्तस्य इति कर्मधारयः । सारतिर्यस्येति बहुव्रीहिर्वा । कदाचित् क्वचित्काले । भिक्षा प्राप्तिः अस्ति । तत् तस्मात् । पश्चात् पुनः । किश्चित् कियत् । दक्षिणाशाम् अवाचीदिशम् । भ्रमित्वा चलित्वा । परिसरितं सरितं सरितं परि तथोक्तम् । पेपीयस्व अत्यर्थ पानं विधेहि । पीनू पाने " इति धातोः यङि लिट् । भूयः पुनश्च । उत्तरेणैव उत्तरमार्गेणैव । लघुगतिः प्राक् तत्र निर्वृष्टत्वात् क्षिप्रगमनः सन् । लघु क्षिप्रमरं द्रुतम् ” इत्यमरः । व्रज गच्छ ॥ ६४ ॥ वक्ष्यत्युच्चैःपथगतपरिश्रान्तितान्तं नितान्तं तुङ्गोऽद्रिः स्वैर्बहुविलसितैर्निर्झरैरात्तकान्तिः । प्रत्युद्यातो धुततटवनोपान्तदेशैर्मरुद्भिः त्वामासारप्रशमितवनोपेद्रवं साधु मूर्ध्ना ॥ ६५ ॥
66
66
वक्ष्यतीति । उचैःपथगतिपरिश्रान्तितान्तम् उच्चैःपथगत्या व्योमगमनेन जाता परिश्रान्तिः परिश्रमः तया तान्तः खिन्नस्तम् । आसारप्रशमितवनोपद्रवम् आसारेण वेगवद्वर्षणेन " आसारो वेगवद्वर्षम् " इत्यमरः । प्रशमितो वनोपद्रवो वनाग्निर्येन तं कृतोपकारमित्यर्थः । त्वां भवन्तम् । तुङ्गः उन्नतः । अद्रि: भूभृत् । कोप्यद्रि
1
१ सर्वज्ञस्खैरिति पाठांतरम् २ उपप्लवमिति पुस्तकांतरे ।