________________
५६
.
पार्थाभ्युदयकाव्यं मसृणं तच्च तन्नीलाञ्जनं च तदिव आभा यस्येति तथोक्तः ।“चिक्कणं ममृणं स्निग्धम्" इत्यमरः । त्वत्पयोबिन्दुपातप्रीतिस्निग्धैः तव जलबिन्दुपतनेन जातप्रमोदेन विश्वस्तैः । जनपदवधूलोचनैः देशस्त्रीणां नेत्रैः । “ राष्ट्रं जनपदो निर्गो जनान्तो विषयः” इति धनञ्जयः । पीयमानः पीयते इति पीयमानः अतितृष्णया निरीक्ष्यमाणः सन्नित्यर्थः । शीघ्रं त्वरितम् । यायाः गच्छेः ।। ६२ ॥
दृश्यान्देशाञ्जलद सकलान्प्रेक्ष्य सिंहावलोका
त्तत्रत्यानां जनपदभुवां तापमाहृत्य पश्चात् । प्रत्यासन्नं जनपदमिमं लवयाऽलं विलम्ब्य सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालम् ॥ ६३ ॥
दृश्यानिति ॥ जलद मेघ । दृश्यान् द्रष्टुं योग्यान् । सकलान् देशान् सर्वविषयान् । सिंहावलोकात् सिंहवदवलोकनात् । प्रेक्ष्य दृष्ट्वा । तत्रत्यानां तत्रभवास्तत्रत्यास्तेषाम् । “केहामुतस्नात्यच् " जनपदभुवां जनपदे भवन्तीति जनपदभुवस्तेषांजनानाम् । तापं सन्तापम् । आहृत्य परिहृत्य । पश्चात् अनन्तरे । विलम्ब्य कालयापनं कृत्वा । अलं पर्याप्तम् । “ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । ” इत्यमरः । कालक्षेपो मा भूदित्यर्थः । मालं शैलवदुन्नतस्थलम् । “ मालमुन्नतक्षेत्रम्” इत्युत्पलः । “मालमुन्नतभूः” इति नानार्थरत्नमालायाम् । क्षेत्रं भूप्रदेशम् । “ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः” इति विश्वः । सद्यः तत्क्षण एव । सीरोत्कषणसुरभि सीरैहलैरुत्कषणेन सुरभि घ्राणतर्पणः यथा भवति तथा । ईषद्वृष्टिं वितन्वन्निति भावः । आरुह्य उत्प्लुत्य । प्रीत्या प्रमोदेन आसन्नं समीपगतम् । इमं जनपदम् एतद्देशम् । “नीवृजनपदो देशविषयौ” इत्यमरः । लङ्घय अत्येहि ॥ ६३ ॥