________________
सटीकम् । प्राप्तं काले प्रणयिनमहो कर्तुमर्हत्यपाशं
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय ॥ ६७ ॥ त्वामिति ॥ तुङ्गवृत्तिः तुङ्गा वृत्तिर्यस्य सोऽचलः स आम्रकूटः । विश्रान्त्यर्थ विश्रमणाय । उपगतं समीपगतम् । प्रिय मित्रम् । त्वां भवन्तम् । उत्तुङ्गैः उन्नतैः । शिखरतरुभिः कूटस्थवृक्षः । अवश्यं निश्चयेन । सङ्ग्रहीष्यति सम्मानं करिष्यति। तथाहि । काले समये । संश्रयाय आश्रयाय । प्राप्तम् आगतम् । प्रणयिनं विश्वस्तम् । क्षुद्रोऽपि कृपणोऽपि "क्षुद्रो दरिद्रे कृपणे नृशंसे” इति यादवः । किं पुनरुदार इत्यपिशब्दार्थः । प्रथमसुकृतापेक्षया पूर्वोपकारपर्यालोचनया। अपाशं निष्फलाभिलाषम् । कर्तु विधातुम् । नार्हत्यहो योग्यो न भवति हि । किन्तु सम्मानयत्येवेति तात्पर्यम् ॥ ६७ ॥ मन्ये मैत्री गुरुभिरचलैारिदानामहा
यं प्रत्येते विदधति धृतिं तस्य ते बन्धुकृत्यम् । कुर्य्यादद्रि शमसुहृदोऽप्युत्तमस्निग्धवृत्तिः
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥६८॥१७॥ मन्य इति ॥ वारिदानां मेघानाम् । गुरुभिः महद्भिः । अचलैः गिरिभिः । अहार्याम् अतिस्निग्धाम् । मैत्री मित्रत्वम् । मन्ये जाने। तथाहि । एते वारिदाः । यं प्रति यमुद्दिश्य । धृति सन्तोषम् । " योगान्तरे धारणे च सप्ततन्तौ सुखेपि च । धैर्यसन्तोषयोश्चैव धृतिशब्द उदाहृतः ।" इत्यभिधानात् । विद्धति कुर्वन्ति । ते अचलाः । तस्य वारिदैः सन्तोषितस्यैव । बन्धुकृत्यम् । भृशम् अत्यन्तम् । “ अतिवेलभृशात्यतिमात्रोद्गाढनिर्भरम्" इत्यमरः । कुर्यात् विदध्यात् । तदा तेन प्रकारेण । उच्चैः महति । मित्रे सुहृदि । १ साकमिति शेषः।
-