SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सटीकम् । ५३ कान्तिः प्रतिबिम्बमनातपे” इत्यमरः । व्यतिकरो मिश्रणं तस्मात् । अत्युदनम् अत्युन्नतम् । “ उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे " इत्यमरः। वर्णोपन्नं " स्यादुपनोन्तिकाश्रयः” इत्यमरः । धनुः चापः । समाविर्भवतीव प्रादुर्भवतीव । पुरस्तात् पुरोभागे । “ प्राच्यां पुरस्तात्प्रथम” इत्यमरः । प्रेक्ष्यं दर्शनीयं स्यात् । इतः तद्धनुः । भूमिरन्ध्रात् एतस्माद्भूबिलात् । भूम्या भूतलेन । अन्तरितविसरम् अन्तरितः व्यवहितः विसरः प्रसारणं यस्य तत् । भोगिमूर्द्धन्यरत्नज्योतिश्चक्रम् नागेन्द्रस्य मस्तकस्थरत्नानां कान्तिवृन्दम् । मूर्द्धनि भवानि मूर्धन्यानि । “ दिगाद्यंशाद्यः ” इति यत्यः । “ ज्योतिस्ताराग्निभाज्वालादृक्षुत्रार्थाध्वरात्मसु” “चक्रं सैन्ये बलावर्ते रथाङ्गे चयराष्ट्रयोः " इत्युभयत्रापि वैजयन्ती । व्योग्नि । नूनं निश्चयेन दृश्यते किम् अवलोक्यते किमित्युत्प्रेक्षा ॥ ५७ ॥ ५८ ॥ युग्मम् खड्गस्यैकं कथमपि दृढं मे सहस्व प्रहारं वक्षोभागे कुलिशकठिने प्रोच्छलद्रक्तधारम् । विद्युद्दण्डस्फुरितरुचिना वारिदस्येव भूयो येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते ॥ ५९॥ खगस्येति ॥ विद्युदण्डस्फुरितरुचिना विद्युद्यष्टिवत् प्रज्वलितकान्तिना । येन खङ्गेन । वारिदस्येव मेघस्येव । ते तव । श्यामं नीलहरितम् । वपुः तनुः । भूयः पुनरपि । अतितराम् प्रकृष्टाम् । कान्तिं शोभाम् । “ शोभा कान्तितिश्छविः” इत्यमरः । आपत्स्यते प्राप्स्यति ।.मे मम । खड्गस्य करवालस्य । दृढं निष्ठुरम् । “कठोरं निष्ठुरं दृढम् ” इत्यमरः । एकं प्रहारं घातम् । कुलिशकठिने वज्र १ भवदीयं वपुनिसर्गतः जलधरनिभत्वात् नैल्यवदत एवासुंदरं खड्गरूपविद्युत्संपर्केणापि सुषमा भूयात् किं च वारिधरे विद्युतोवस्थानं युक्तं मेघसदृक्षे त्वद्रक्षसि प्रहरणद्वारा खङ्गरूप विद्युतोऽवस्थानं न्याय्यमित्याशयः॥
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy