________________
५४
पार्धाभ्युदयकाव्यं कर्कशे । "हादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः” इत्यमरः । वक्षोभागे वक्षःस्थले । “उरो वत्सं च वक्षश्च " इत्यमरः । प्रोच्चलद्रक्तधारं प्रोच्चलन्ती रक्तस्य धारा यथा भवति तथा । कथमपि महता कष्टेनापि । सहस्व क्षमस्व ॥ ५९॥ शकोरेवं प्रहृतमथवा धत्स्व शूराग्रणी,
पिच्छोपायप्रतितिरुचिरं येन शोभाऽधिका ते । क्रीडाहेतोर्विरचिततनोरिन्द्रनीलत्विषः स्या
द्बहेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥६०॥१५॥ शङ्कोरिति ॥ अथवा । क्रीडाहेतोः लीलानिमित्तम् । विरचिततनोः निर्मितशरीरस्य । इन्द्रनीलत्विषः इन्द्रनीलरत्नस्येव त्विद् कान्तिर्यस्य तस्य । गोपवेषस्य गोपालवेषवतः । विष्णोः कृष्णस्य । स्फुरितरुचिना प्रोञ्चलद्युतिना । बहेणेव पिच्छेनेव । “ पिच्छबहे नपुंसके” इत्यमरः । येन शङ्कना । ते तव । अधिका उत्कृष्टा । शोभा कान्तिः । स्यात् भवेत् । शूराग्रणीः भो वीराग्रेसर । त्वं मे मम । शङ्कोः नाराचस्य । “ वा पुंसि शल्यं शङ्कर्ना" इत्यमरः । प्रहृतं प्रहारम् । पिच्छोपायप्रतितिरुचिरं पिच्छस्य शल्याग्रस्थितबर्हस्य अग्रस्य समीपमुपायं तस्य प्रततिः प्रतानम् “प्रततिर्विस्तृतौ वल्याम्" इति विश्वः । तया रुचिरं सुषमं यथा भवति तथा । एवं दर्यमानप्रकारेण धत्स्व धेहि ॥ ६०॥ आस्तां तावत्प्रहरणकथा स्वर्ययाऽयं तवाऽयं
मार्गः स्व| वियदभिपतेः प्रागमुष्मात्प्रदेशात् । जीमूतत्वं दधदनुगतः क्षेत्रिणां दृष्टिपातै
स्त्वय्यायत्तं कृषिफलमिति भ्रूविकाराऽनभिज्ञैः ॥ ६१॥ १ भ्रूविलासानभिज्ञैरित्यपि पाठः ॥