________________
पार्श्वाभ्युदयकाव्यं
प्रस्थाने ते विरचितमितस्तोरणं नूनमुच्चैः काञ्चीदाम लथितमथवा स्वर्गलक्ष्म्याः किमेतत् । वर्णोपघ्नं धनुरुत समाविर्भवत्यत्युदग्रं रत्नच्छायव्यतिकर इव प्रेक्ष्यमेतत्पुरस्तात् ॥ ५७ ॥ नूनं भूम्यान्तरितविसरं भोगिमूर्द्धन्यरत्नज्योतिश्चक्रं वियति किमितो दृश्यते भूमिरन्ध्रात् । प्रायेणेदं दिनकरकराश्लिष्टमेघाश्रितं यद्वल्मीकाग्रात्प्रभवति धनुः खण्डमाखण्डलस्य ॥ ५८ ॥
५२
"
""
प्रस्थान इति ॥ वल्मीकाग्रात् वामलूरविवरात् । " वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् " इत्यमरः । प्रायेण बाहुल्येन । “ प्रायो भूम्यन्तगमने" इत्यमरः । दिनकरकरालिष्टमेघाश्रितं सूर्यकिरणसमाक्रान्तवारिवाहाश्रितम् । यदिदं यदेतत् । आखण्डलस्य इन्द्रस्य । धनुःखण्डं चापदण्डम् । प्रभवति आविर्भवति । एतत् इन्द्रधनु:खण्डम् । ते तव । प्रस्थाने प्रयाणे । “ प्रस्थानं गमनं गमः इत्यमरः । इतः पुरः । विरचितम् आरचितम् । उच्चैः महत् । नूनं निश्चयेन । तोरणं भवतीति शेषः । अथवा न चेत् । स्वर्गलक्ष्म्याः स्वःश्रियः । श्लथितम् आस्रस्तम् । काञ्चीदाम रशना । किं भवेत् किमिति प्रश्नः । उत अथवा । " विकल्पे किं किमूत च "" इत्यमरः । एतत् इन्द्रधनुः । रत्नच्छायव्यतिकरे रत्नानां छायाः रत्नच्छायाः “अनन् तत्पुरुषे सेनाछायाशालासुरानिशा" इति वैजयन्तीस्त्रीनपुंसकशेषः। रत्नच्छायानां पद्मरागादिमणिकिरणानाम् । “छाया सूर्यप्रिया
I
१ स्वर्गलक्ष्मीः तवागमनमालक्ष्य त्वदीयपरिरंभणाव्यवहितोत्तरक्षण एवासमशर के लिरारंभणीयेति कांचीदाम श्लथयित्वा वर्तत इव भाति अतस्त्वया लघु गन्तव्यमिति प्रेरणाकृतेत्याशयः ।