________________
सटीकम् ।
५१ तस्मादिति ॥ तस्मात् ततः । विद्युत्प्रसवसमये तडिदुत्पत्त्यवसरे। वधूनां योषिताम् । सिद्धिं साधनं सिद्धिस्तं मनोविजयम् । प्राप्य लब्ध्वा । विद्युदुत्पत्तिोषिन्मनोविकारहेतुत्वादित्यर्थः । अदः एतत्। समुचितं सुयोग्यम् । दिव्यजीमूतरूपं दिव्यमेघाकृतिम् । सद्यः तदैव । “ सद्यः सपदि तत्क्षणे " इत्यमरः । कृत्वा विधाय । दिव्यान् दिविभवान् । भोगान् विषयान् । “ भोगः सुखं रुयादिभृतावहेश्च फणकाययोः।" इत्यमरः । खं व्योम । उत्पत उद्गच्छ । अलकापुर्या उदीच्यत्वादुत्तरमुखो भूत्वा गच्छेति भावः ॥ ५५॥
दिग्भ्योऽबिभ्यत्कथमिव पुमान्भीलुकस्तत्र गच्छे
दुल्लङ्घयाद्रीन्विषमसरितो दुर्गमांश्च प्रदेशान् । तन्मारोदीव्रज सुनिपुणं व्योममार्गानुसारी दिकागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ ५६ ॥ १४ ॥
दिग्भ्य इति ॥ तत्र मार्गे। भीलुकः “भ्यः कुकुक्क्लुकत्यः" "भीरुभीरुकभीलुकाः" इत्यमरः । पुमान् पुरुषः। दिग्भ्यः ककुब्भ्यः । अबिभ्यत् भीतिमगच्छत् । अद्रीन पर्वतान् । विषमसरितः वैषम्ययुक्ता नदीः । दुर्गमान् गन्तुमशक्यान् । प्रदेशांश्च कान्तारादिस्थानान्यपि । उल्लङ्य अतीत्य । कथमिव केन प्रकारेण । इवशब्दो वाक्याऽलङ्कारे । गच्छेत् व्रजेत् । तत् तस्मात्कारणात् । मा रोदीः रोदनं मा कुरु । पथि मार्गे । दिक्षागानां दिग्गजानाम् । स्थूलहस्तावलेपान् पीवराणां शुण्डानां दर्पान् । “ अवलेपस्तु गर्वः स्याल्लेपने दूषणेऽपि च” इति विश्वः । परिहरन् दूरीकुर्वन् । व्योममार्गानुसारी आकाशमार्गानुयायी सन् । सुनिपुणं सुष्टु चतुरो यथा भवति तथा । व्रज गच्छ । तन्मार्गे पुमान्भीरुश्चेद्गन्तुं न समर्थः। तस्माद्धीरो भवन युक्त्या बजेति तात्पर्यम् ॥५६॥