________________
५०
पार्थाभ्युदयकाव्यं कथिते । पथि मार्गे । कामगत्या अभीष्टगमनेन । " इच्छामनोभवौ कामौ " इत्यमरः । कामं स्वैरम् । “ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ” इत्यमरः । यायाः गच्छेः ॥ ५३॥ मय्यामुक्तस्फुरितकवचे नीलमेघायमाने
मन्ये युक्तं मदनुकृतये वारिवाहायितं ते । मेघीभूतो व्रज लघु ततः पातशङ्काकुलाभिः
दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ॥ ५४॥ मयीति ॥ आमुक्तस्फुरितकवचे आमुक्तः सन्नद्धः स्फुरितः प्रस्फुरन् कवचो यस्य तस्मिन् । " आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्" इत्यमरः । सन्नद्धः । “उरच्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्" इत्यमरः । मयि यक्षे । नीलमेघायमाने नीलश्चासौ मेघश्च स इवाचरतीति नीलमेघायमानस्तस्मिन्सति। मदनुकृतये मम स्वरूपानुसरणाय । ते तव । वारिवाहायितं वारिवाह इवाचरतीति वारिवाहायते वारिवाहायते स्म तथोक्तम् । युक्तं योग्यम् । मन्ये जाने । ततः तस्मात् । मेघीभूतः पयोदरूपं वहन् । पातशङ्काकुलाभिः पतनसन्देहव्याकुलितात्मभिः । मुग्धसिद्धाङ्गनाभिः मुग्धाः मूढाः सिद्धानां देवविशेषाणाम् अङ्गनास्ताभिः । “ मुग्धः सुन्दरमूढयोः" इत्यभिधानात् । चकितचकितं भयचकितप्रकारं यथा तथा । “रिद्वणः सदृशेन ” इति द्विर्भावः । दृष्टोत्साह अवलोकितवारम्भः सन् । दृष्टोद्योग इति वा । " उत्साहोध्यवसायः स्यात्सवीर्यमतिशक्तिभाक् ” इत्यमरः । लघु शीघ्रम् । व्रज गच्छ ॥ ५४॥ तस्माद्विद्युत्प्रसवसमये प्राप्य सिद्धिं वधूनां
सद्यः कृत्वा समुचितमदो दिव्यजीमूतरूपम् । दिव्यान्भोगान्समनुभवितुं कामुकः कामचारे
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खम् ॥ ५५ ॥