________________
सटीकम् ।
समितिस्ततिः” इति धनञ्जयः । तया सुभगाः रुचिराः तथोक्ताः । पुष्पशय्याचितान्ताः पुष्पैः कृताः शय्याः शयनतल्पानि ताभिराचिताः प्रसारिताः अन्ताः अन्तर्भागाः येषां ते तथोक्ताः । “ मृताववसिते रम्ये समाप्तावन्ते” इति शब्दार्णवे । “ अन्तौ व्यवसिंते मृत्यौ स्वरूपे निश्चयेन्तके " इति वैजयन्ती । रम्याः रन्तुं योग्याः मनोहरा इत्यर्थः। कृतकगिरयः क्रीडाद्रयः । सन्तीति शेषः ॥ तेन पथा । व्रज्या गतिः । “ व्रज्याटाट्यापर्यटनम्" इत्यमरः । तव ते । सुखकरी सौख्यकारिणी स्यात् । स्रोतसां प्रवाहाणाम् । “ स्रोतोऽम्बुसरणं स्वतः” इत्यमरः । परिलघु गुरुत्वदोषरहितम् । उपलास्फालनकेलित्वात् पथ्यमित्यर्थः । पयः पानीयम् । उपभुज्य उपयोगं कृत्वा । सुखेन अश्रमेण । यायाः गच्छेः। “या प्रापणे" लिङ् ॥५२॥ कामं यायाः पथि निगदिते कामगत्या विमानं
प्रीत्यारूढः प्रथितमहिमा वारिवाहीव बन्धो। दृष्टोद्योगो नभसि विहरन् खेचरीभिस्त्वमुच्चै
रद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः ॥ ५३॥ काममिति ॥ बन्धो अहो भ्रातः । पवनः त्वत्सहचरो वायुः । अद्रेः चित्रकूटस्य । उच्चैः तुङ्गम् । शृङ्गम् शिखरम् । “कूटोऽस्त्री शिखरं शृङ्गम् ” इत्यमरः । हरति किंस्वित् उत्पाटयति किम् । " किं पृच्छायां जुगुप्सने ।" स्वित्प्रश्ने च वितर्के च" इत्युभयत्राप्यमरः । इति एवम् । शङ्कयेति शेषः । उन्मुखीभिः उद्गतं मुखं यासां तास्तथोक्तास्ताभिः उन्नमितवक्राभिः । खेचरीभिः विद्याधरवनिताभिः । दृष्टोद्योगः ईक्षितव्यापारः । नभसि आकाशे विहरन् । विमानं व्योमयानम् । प्रीत्या प्रमोदेन । आरूढः आरूढवान् । प्रथितमहिमा प्रसिद्धसामर्थ्यः । त्वम् । “ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः" इत्यमरः ॥ वारिवाहीव मेघवत् । निगदिते मया