________________
४८
पार्थाभ्युदयकाव्यं तत्राप्येकोऽनृजुर्ऋजुरतः कोपि पन्थास्तयोर्यो
वक्रोऽपि त्वा नयति सुखतस्तं शृणु प्रोच्यमानम् । नानापुष्पद्रुमसुमनसां सौरभेणाततेषु
खिन्नःखिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र ॥५१॥ तत्रापीति ॥ तत्रापि तन्मार्गेऽपि । एकः पन्थाः । अनृजुः वक्रः । कोपि पन्थाः। अतः अस्मात् । ऋजुः सरलः । भवतीति शेषः । तयोः तदध्वनोः । यः मार्गः । वक्रोपि असरलोपि । त्वा त्वाम् । “त्वामौ द्वितीयायाः ” इति त्वादेशः । सुखतः अनायासेन । नयति प्रापयति । प्रोच्यमानं वक्तुमुपक्रान्तम् । तं पन्थानं शृणु । यत्र नानापुष्पद्रुमसुमनसां नानाविधानि पुष्पाणि येषां द्रुमाणां तथोक्तास्तेषाम् । सुमनसः कुसुमानि । “ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्" इत्यमरः । तासां सौभरेण सुरभिरेव सौरभं “सुरभिर्घाणतर्पणः” इत्यमरः । तेन आततेषु निचितेषु । शिखरिषु पर्वतेषु । खिन्नःखिन्नः क्षीणबलः सन् क्षीणबलः सन् । वीप्सायां द्विर्भावः । पदं पादम् । न्यस्य निक्षिप्य । गन्तासि गमिष्यसि । “ तास्यौ लुत्रोः" इति लुद् तऱ्यासू ।। ५१॥ यस्मिन्रम्याः कृतकगिरयः सेव्यसानुप्रदेशा
नानावीरुद्विततिसुभगाः पुष्पशय्याचितान्ताः । तेन व्रज्या तव सुखकरे तत्र यायाः सुखेन ___ क्षीणःक्षीणः परिलघुपयः स्रोतसां चोपभुज्य ॥५२॥१३॥
यस्मिन्निति ॥ यस्मिन्मार्गे । सेव्यसानुप्रदेशाः सेव्याः सेवितुं योग्याः सानूनां तटानां प्रदेशा येषां ते तथोक्ताः । नानावीरुद्विततिसुभगाः विविधाः वीरुधः गुल्माः “लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि " इत्यमरः । तासां विततिः सङ्घातः “ सङ्घातः