________________
सटीकम् ।
४७
त्वां भवन्तम् । अद्यैव इदानीमेव । अन्तकमुखबिलं कृतान्तस्य वक्रविवरम् । प्रापयामि नयामि । प्रयाणानुरूपं तव गमनानुकूलम् । यथा तथा । कथयतः ब्रुवतः । मत्तः मत्सकाशात् । त्वकं निन्दितस्त्वं त्वकम् । मे मार्ग मम पन्थानम् । “ मार्गों मृगवधे मासे सौम्य:ऽन्वेषणेऽध्वनि ” इति यादवः ॥ शृणु श्रुतिविषयं विधेहि ॥४९॥ श्रेयोमार्गान्नहि जिनमताशितस्यैक एव
मार्गोऽसह्यादसुखविषधे रकात्तारको यः। तं मुक्त्वा ते श्रुतिसुखपदं वच्मि यत्र प्रियायाः ___ संदेशं मे तदनु जलद श्रोष्यसि श्रव्यबन्धम् ॥ ५० ॥
श्रेय इति ॥ जलद भो पयोद योगिन् । जिनमतात् मन्यते स्म मतः जिनेन अर्हता मतः जिनमतस्तस्मात् । श्रेयोमार्गात् रत्नत्रयात्मकात् मोक्षमार्गात् । भ्रंशितस्य ध्वंसितस्य । मिथ्यादृष्टरित्यर्थः । मार्गः स्वाभिप्रेतप्रदेशाप्तेरुपायः । एक एव नहि न भवति हि । यः मार्गः । असह्यात् दुःसहात् । नारकात् नरकस्यायं नारकस्तस्मात् । असुखविषधेः न सुखम् असुखम् दुःखविषाणि जलानि " नीरं जीवनमविषम्” इति धनञ्जयः । तानि धीयन्तेऽस्मिन्निति विषधिः विषधिरिव विषधिः असुखमेव विषधिस्तस्मात् । तारकः उत्तरणहेतुः । भवेदिति शेषः । तं मागै मुक्त्वा विमुच्य । ते तव । श्रुतिसुखपदं श्रोत्रानन्दास्पदम् । यथा तथा । वच्मि ब्रवीमि । तदनु पश्चात् । यत्र मन्मार्गे । मे मम । प्रियायाः कान्तायाः । श्रव्यबन्धं श्रव्यः श्रवणीयो बन्धः शब्दरचना यस्येति तथोक्तस्तम् । संदेश वाचिकम् । “ संदेशवाग्वाचिकं स्यात् " इत्यमरः । श्रोष्यसि श्रवणविषयं करिष्यसि । खस्य मिथ्याक्त्वात् स्वयोग्यं भुवनत्रयमार्ग ब्रवीतीति तात्पर्यम् ॥५०॥ . १ 'श्रोत्रपेयम् ' इत्यपि पाठः ।