________________
पार्धाभ्युदयकाव्यं पश्चात्तापादिति ॥ अहो भोः । भ्रातः सहोदर । पश्चात्तापात् व्युपरतिं विगमम् । अपादाने पञ्चमी। मयि भ्रातरि । प्रीतिमपि स्नेहं च । एहि गच्छ । प्रौढप्रणयपुलकः प्रौढेन प्रणयेन जातः पुलकः रोमाञ्चो यस्याऽसौ तथोक्तः सन् । स्वदोभ्यो निजभुजाभ्याम् । मां ज्येष्ठभ्रातरं निगूह “ जुहोञ् संवरणे " लटि “ गोहोचेतूत्यू" आश्लेषय । तत् तस्माद्धेतोः। चिरविरहजं बहुकालवियोगसम्भवम्। उष्णम् ऊष्माणम् । बाष्पं नेत्रजलम् । “ बाष्पं नेत्रजलोष्मणोः " इत्यभिधानात् । मुञ्चतः पातयतः । ते तव । स्निग्धे विश्वस्ते बन्धौ मयकि । “ तिङ् सर्वादेरक्ष्यन्त्यात्पूर्वोगित्यक्त्यः ” । जनिता उत्पन्ना । स्नेहव्यक्तिः प्रेमाविर्भावः । जनैः लोकैः । श्लाघनीया श्लायितुं योग्या कीर्तनीयेत्यर्थः । स्तात् अस्तु । स्निग्धानां हि चिरविरहात्सङ्गतानां बाष्पपातादिर्भवतीति भावः ॥ ४८ ॥
सम्प्रति तस्य गन्तव्यपदानां वक्तुमुपक्रमते
किं वा वैरीन्धनदहि मयि प्रौढमानस्त्वमेतनाभिप्रेयाः किमपरमहो नो विलम्बेन तिष्ठ ।
त्वामधैवान्तकमुखबिलं प्रापयामि त्वकं मे मार्ग मत्तः शृणु कथयतस्त्वत्प्रयाणानुरूपम् ॥ ४९ ॥ किं वेति ॥ वैरीन्धनदहि वैरिण एव इन्धनानि काष्टानि "काष्ठं दार्विन्धनम् ” इत्यमरः । तदहतीति वैरीन्धनधक् तस्मिन् । मयि यक्षेन्द्रे । त्वं भवान् । प्रौढमानः प्रवृद्धगर्वः सन् । “ मानश्चित्तसमुन्नतिः” इत्यमरः । एतत् एतावदुदितं सर्वम् । किं वा नाभिप्रेयाः किमिति नाभिजानीयाः । अहो भो मुने । अपरं किम् अन्यत् किम् वक्तव्यमस्ति । विलम्बेन कालहरणेन नो तिष्ठ न वस।
१ 'मार्ग तावच्छृणु ' इत्यपि पाठः ।