________________
सटीकम् । स्नातो धौताम्बरनिवसनो दिव्यगन्धानुलिप्तः
स्रग्वी दन्तच्छदविरचितारक्तताम्बूलरागः। खड्गी युद्धे कृतपरिकरः क्षालितागःपरागः
काले काले भवति भवतो यस्य संयोगमेत्य ॥४७॥ स्नात इति ॥ यस्य युद्धस्य । संयोगं सम्बन्धम् । एत्य प्राप्य । कालेकाले समयसमये । भवतः तव । कृतः। परिकरः प्राभवम् येन सः । “वृन्दप्राभवयोश्चैव पर्यङ्कपरिवारयोः । आरम्भे च परिस्तारे भवेत्परिकरस्तया " इत्यभिधानात् ॥ गुणगण इति वा पाठः ॥ गुणगणः गुणसमूहः । क्षालिताग:परागः आग: दोषः । “ आगोऽपराधः " इत्यमरः । तदेव परागः रजः । “ चन्दने पुष्परजसि धूलिस्नानीयचूर्णयोः ॥ उपरागेऽस्तशैले च परागः परिकथ्यते” इत्यभिधानात् । क्षालितः परिशोधितः आगःपरागो यस्यासौ तथोक्तः । भवति ॥ तस्मिन् युद्धे संग्रामनिमित्तम् । स्नातः कृतमङ्गलमज्जनः । धौताम्बरनिवसनः परिशुद्धवस्त्राच्छादनः । “अम्बरं वाससि व्योग्नि कार्पासे च सुगन्धके ।" " वसनं छादनेशुके ” इत्युभयत्रापि विश्वः । दिव्यगन्धानुलिप्तः मलयजकल्केनानुचर्चितः । स्रग्वी स्रगस्यास्तीति स्रग्वी मालावान् । “ माल्यं मालास्रजौ” इत्यमरः । दन्तच्छदविरचितारक्तताम्बूलरागः दन्तच्छदयोरोष्ठाधरयोः “ओष्ठाधरौ तु रदनच्छदौ” इत्यमरः । विरचितः विहितः आरक्तः ताम्बूलस्य रागो यस्यासौ तथोक्तः । खड्गी खड्गोऽस्यास्तीति । भव त्वम् युद्धसन्नद्धो भवेत्यर्थः ॥ ४७ ॥
पश्चात्तापाड्युपरतिमहो मय्यपि प्रीतिमेहि ... भ्रातः प्रौढप्रणयपुलको मां निगृह स्वदोाम् । तत्ते स्निग्धे मयकि जनिता श्लाघनीया जनैः स्तात् स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाप्पमुष्णम् ॥४८॥१२॥