________________
४४ .
पार्श्वभ्युदयकाव्यं इत्यमरः । स्पृहयसि वाञ्छसि । यत्तदोनित्यसम्बन्धादिति । तस्मिव्रणे । संग्रामनिमित्तहेतौ । “ हेत्वथैः सर्वाः प्रायः” इति सप्तमी। मङ्क शीघेण । सन्नह्य सज्जीकृत्य । कालक्षेपात् समययापनात् । उपरम अपैहि कालविलम्बनं मा कुर्वित्यर्थः । यः त्वां भवन्तम् । संरक्षति पालयति आश्रयो भवतीत्यर्थः । तं तुङ्गम् उन्नतम् । प्रियसखं प्रियभित्रम् “ राजन् सखेः” इत्यत् समासान्तः । अमुं शैलम् एतच्चित्रकूटाढे पर्वतम् । आलिङ्गय आश्लिष्य । आपृच्छस्व साधयामि न वेति । सभाजय “अथ द्वे आनन्दनसभाजने । आपृच्छनम् ” इत्यमरः ॥ “नुदाञ् पृच्छः" इत्यात्मनेपदम् ॥४५॥
भूयश्चानुस्मर सिंषिधुषः कार्यसिद्ध्यै प्रयत्य
प्रायेणेष्टा महति विधुरे देवताऽनुस्मृतिर्नः। सिद्धिक्षेत्रं शरणमथवा गच्छ तं रामशैलं
वन्द्ये पुंसां रघुपतिपदैरङ्कितं मेखलासु ॥ ४६॥ भूयश्चेति ॥ कार्यसिद्ध्यै संग्रामविजयनिष्पत्तये । प्रयत्य प्रयत्न कृत्वा । सिषिधुषः सिद्धा देवताविशेषाः । भूयश्च मुहुरपि । अनुस्मर अनुचिन्तय । नः अस्माकम् । महति विधुरे महद्विपदि । देवतानुस्मृतिः जिनेन्द्रस्मरणम् । प्रायेण बाहुल्येन । इष्टा अभिमता । स्यादिति शेषः । अथ वा नो चेत् । पुंसां वन्द्यैः। “वानाकः” इति षष्ठी । सत्पुरुषस्तुत्यैरित्यर्थः । रघुपतिपदैः रामस्य पादन्यासैः । मेखलासु कटकेषु । " मेखला श्रोणिकटके कटिबन्धनिबन्धने” इति यादवः। अङ्कितम् । सिद्धिक्षेत्रं श्रेयःस्थानम् । तंरामशैलम् । रामगिर्यपराभिधानं चित्रकूटम् । शरणं शरण्यम् । गच्छ याहि । संग्रामभीरुश्चेत्तत्पृष्ठगतो भवेत्यर्थः ॥ ४६॥
१ 'जुगुप्साविराम' इत्यादिना पंचमी । २ जिनपतिं पाठांतरं ।