________________
पार्थाभ्युदयकाव्यं सङ्गच्छन्ते पथि जलमुचामापतन्तः समन्तादाकैलासाद्विसकिसलयच्छेदपाथेयवन्तः ॥४३॥
ते चेति ॥ मत्प्रामाण्यात् प्रमाणस्यभावः प्रामाण्यं “प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु” इत्यमरः । अहमेव प्रामाण्यं मत्प्रामाण्यं तस्मात् । मद्वचनप्राधान्यात् । यक्षेश्वराणां गुह्यकानाम् । धाम स्थानम् । “ गृहदेहत्विट्प्रभावा धामानि” इत्यमरः । जिगमिषोः गन्तुमिच्छतीति जिगमिषुः तस्य । तव ते । जलमुचां तडित्वताम् । पथि वर्त्मनि व्योम्नीत्यर्थः । आकैलासात् “ मर्यादायामाङ्” इति पञ्चमी । " आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयांगजे” इत्यमरः । कैलासनामपर्वतपर्यन्तम् । समन्तात् सर्वतः । आपतन्तः गच्छन्तः । बिसकिसलयच्छेदपाथेयवन्तः बिसकिसलयानां मृणालाग्राणाम् " नालो नालमथास्त्रियाम् । मृणालं बिसम्” इति " पल्लवोऽस्त्री किसलयम्' इत्यप्यमरः । छेदः शकलं स एव पथि साधु पाथेयम्। " पथ्यादेढण्” इति ढत्यः । तदस्त्येषामिति बिसकिसलयच्छेदपाथेयवन्तः । ते च हंसाः मरालाः । नवजलधरैः नूतनाम्बुधरैः । उन्मनीभूय प्रागनुन्मनसः इदानीम् उन्मनसो भवनम् उन्मनीभवनम् तत्पूर्व पश्चात्किञ्चिदित्युन्मनीभूय क्लेशिनो भूत्वेत्यर्थः । अवश्यं निश्चयेन । सङ्गच्छन्ते सङ्गता भवन्ति । “ संविप्रावात् ” इति तङ् ॥ ४३ ॥ स्फीतोत्कण्ठा विगलितमदा मन्दमन्दायमाना
मूकीभूताः स्खलितगतयोऽनुन्मुखास्सन्तताशाः। त्वामन्वेते पवनपदवीमाश्रयन्तोऽनुरूपाः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥४४॥११॥ स्फीतेति ॥ स्फीतोत्कण्ठाः प्रवृद्धक्केशाः । विगलितमदाः कृशी