________________
सटीकम् ।
४१
सफलाम् । “ वन्ध्योफलोवकेशी च” इत्यमरः । उच्छिलीन्द्रां । " कन्दल्यामुच्छिलीन्द्रा स्यात् ” इति शब्दार्णवः । उद्गताः शिलीन्द्राः अङ्करविशेषाः यस्याः सा तथोक्ता ताम् । उत्पन्नसस्याङ्करामित्यर्थः । कतु विधातुम् । प्रभवति समर्थ भवति । तच्च गम्भीरस्तनितमपि श्रोतुं श्रवणाय अर्हसि योग्यो भवसि । इदं गर्जितं शृण्वित्यर्थः ॥ ४१ ॥ पश्योत्रस्ता धवलितदिशो मन्दमन्दं प्रयान्तो
दृश्यन्तेऽमी गगनमभितो मन्दसानाः स्वनन्तः । बद्धोत्कण्ठोद्विगलितमदाः प्रावृषेण्याम्बुदानां
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ॥ ४२॥ पश्येति ॥ प्रावृषेण्याम्बुदानां प्रावृषि भवाः प्रावृषेण्याः “ प्रावृषेण्यः” इति साधुः । " स्त्रियां प्रावृट् स्त्रियां भूनि वर्षाः ” इत्यमरः । वर्षाकालोद्भूत इत्यर्थः । ते च ते अम्बुदाश्च तेषाम् । श्रवणसुभगं श्रोत्रप्रियम् । तत् गजितं स्तनितं श्रुत्वा उत्रस्ताः भीताः । बद्धोत्कण्ठोद्विगलितमदाः बद्धा उत्कण्ठा वियोगदुःखम् “उत्कण्ठोकलिके समे” इत्यमरः । तेन उद्गलितः शिथिलितो मदो हर्षो येषां ते तथोक्ताः । स्वनन्तः ध्वनन्तः । मानसोत्काः मानसे मानसाभिधाने उत्तरदिस्थिते सरसि उत्काः उन्मनसः । प्राप्नुमिच्छन्त इत्यर्थः । “ स्यादुत्क उन्मनाः ” इत्यमरः । धवलितदिशः शुभ्रीकृतककुभः । “वलक्षो धवलोऽर्जुनः।” “दिशस्तु ककुभः काष्ठाः” इत्युभयत्राप्यमरः । धवलवर्णा इत्यर्थः । गगनं व्योम । अभितः समन्तात् । मन्दमन्दं शनैःशनैः। प्रयान्तः गच्छन्तः। तेऽमीमन्दसानाः। ते एते हंसाः दृश्यन्ते प्रेक्ष्यन्ते पश्य अवलोकय ॥ ४२ ॥ ते चावश्यं नवजलधरैरुन्मनीभूय हंसा
मत्प्रामाण्यात्तव जिगमिषोर्धाम यक्षेश्वराणाम् ।