________________
४०
पार्श्वाभ्युदयकाव्यं
चासौ मन्दारमाला च तथोक्ता त्रिदशनिहिता अम्लानमन्दारमाला यस्य सः तम् । तूर्यध्वानस्तनितमुखरं तूर्याणां नृत्यगीतवाद्यानाम् “ तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ” इत्यमरः । स्तनितं पयोधरस्वनः । “ स्तनितं गर्जितं मेघनिर्घोषे " इत्यमरः । तेन मुखरः आबद्धमुखः तथोक्तस्तम् । “दुर्मुखे मुखराबद्धमुखौ " इत्यमरः । तं दिव्ययानाधिरूढम् । दिव्यं च तत् यानं च दिव्ययानं तदधिरूढम् । द्यां दिवम् । “ द्योदिवौ द्वे स्त्रियाम् ” इत्यमरः । उद्यन्तम् उद्गच्छन्तम् । नयनसुभगं नयनानां नेत्राणाम् । “ लोचनं नयनं नेत्रम् " इत्यमरः । प्रीतिसुभगम् आनन्दकरं । भवन्तं त्वाम् । खे आकाशे । “ अनन्तं सुरवर्त्म खम् ” इत्यमरः । बद्धमाला: विहितश्रेणयः । बलाकाः पक्षिविशेषाः । बलाका बिसकण्ठिका " इत्यमरः । सजलजलदाशङ्कया जलसहितमेघाशङ्कया । सेविष्यन्ते भजिष्यंते ॥ ४० ॥
"
1
66
योगिन्पश्यंस्त्वदतुलधृतेर्भङ्गहेतून्पयोदांस्तद्गम्भीरध्वनितमपि च श्रोतुमर्हस्यकाले । केकीवाशखारिषु चिरं नर्तयेद्यन्मयूरान्
कर्त्तुं यच्च प्रभवति महीमुच्छिलन्द्रामवन्ध्याम् ॥ ४१ ॥
योगिन्निति ॥ योगिन् भो यते । अकाले अनवसरे । त्वदतुलधृतेः तव अतुला असमाना धृतिर्धीरता तथोक्ता । " धृतिर्धारणधैर्ययोः " इत्यमरः । भङ्गहेतून् पराजयकारणभूतान् । पयोदान् स्तनयित्नून् । पश्यन् प्रेक्षमाणः सन् । शिखरिषु भूधरेषु । " महीध्रे शिखरिक्ष्माभृत् " इत्यमरः । केकोद्गीवान् केकया स्वकीयवाण्या "" केकावाणी मयूरस्य इत्यमरः । उद्गता ग्रीवा येषां ते तथोक्ताः । अथ ग्रीवायां शिरोधिः कन्धरेत्यपि " इत्यमरः । तान् मयूरान् नीलकण्ठान् । चिरं नर्तयेत् नाटयेत् । यच्च महीं भुवम् । अवन्ध्यां
""
(6