________________
सटीकम् ।
३९ मरः । स्वर्गस्त्रीणां त्रिदिववनितानाम् । अहमहमिकाम् अहमधिकाऽहमधिकोत्यहंकारोऽत्रास्ति तथोक्ता ताम् परस्पराहङ्कारम् । “अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः ” इत्यमरः । संविधास्यन् सम्यक् करिष्यन् सन् । वीरशय्यां वीरशयनीयं श्रितः आश्रितः । " श्रितादिभिः” इति द्वितीयातत्पुरुषः । स्याः भवेः । तदा तत्समये । नभसि आकाशे । आबद्धमालाः विरचितपतयः । विद्याधर्यः खेचरसीमन्तिन्यः । पुण्यपाकात् सुकर्मपाकात् । विनङ्क्ष्यत् गर्भाधानक्षणपरिचयात् गर्भः कुक्षिस्थजन्तुः । “ गर्भे पञ्चकके नग्ने सुते पवनसङ्कटे । कुक्षौ कुक्षिस्थजन्तौ च ” इति यादवः । विनझ्यंश्चासौ गर्भश्च तथोक्तः तस्याधानमुपादानं तदेव क्षणः उत्सवः । “ निर्व्यापारस्थितौ कालविशेषोत्सवयोःक्षणः” इत्यमरः । तस्मिन्परिचयादभ्यासात् । “ पुण्यपाकाविनक्ष्यद्गर्भाधानक्षणपरिचयात् ” इति पाठः सम्यक् । तत्पक्षे-विनङ्ख्यतीति विनङ्ख्यन् । " नश अदर्शने” लट् । “ तास्यौ लुत्त्रोः ” इति स्यः । “ नस्मरजसोनम्” इति नम् । न विनङ्ख्यन्नविनझ्यन् पुण्यपाकेनाविनझ्यन् पुण्यपाकाविनझ्यन् । अन्यत्र पूर्ववदेव स्थिरतरगर्भस्वीकारादित्यर्थः । नूनं निश्चयेन । त्वां भवंतम् । वृणते सेवन्ते ॥३९॥ मूर्छासुप्तं त्रिदशनिहिताम्लानमन्दारमालं
तूर्यध्वानस्तनितमुखरं दिव्ययानाधिरूढम् । द्यामुद्यन्तं सजलजलदाशङ्कया बद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥४०॥ १०॥ मूर्च्छति ॥ मूर्छासुप्तं मूर्च्छया शयितम् । त्रिदशनिहिताऽम्लानमन्दारमालं त्रिदशैर्निर्जरैः निहिता निक्षिप्ता तथोक्ता मन्दारस्य कल्पवृक्षस्य माला स्रक् तथोक्ता । “ मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च ” इति “ माल्यं मालास्रजौ” इति चामरः । अम्लाना