________________
पार्श्वभ्युदयकाव्यं शंसन्तीदं ननु वनगजा दानशीलास्तथाब्दा
वामश्चायं नुदति मधुरं चातकस्ते सगन्धः ॥ ३८॥ तस्मादिति ॥ तस्मात् कारणात् । मुने भो योगिन् । योगंध्यानम् । शिथिलय शिथिलं कुरु । मे मम । युद्धक्षणं सङ्ग्रामोत्सवम् “ अथ क्षण उद्धर्षो मह उद्धव उत्सवः ” इत्यमरः । देहि वितर । देहिना जीवानाम् । दानात् त्यागात् । अन्यत् भिन्नम् । श्लाघ्यं पूज्यम् । सुकृतं पुण्यम् । न खलु नास्ति हि । तथाहि । दानशीलाः । “दानं गजमदे त्यागे शुद्धिखण्डनयोरपि ” इति नानार्थमालायाम् । दानं गजजलं त्यागो वा तदेव शीलं स्वभावो येषामिति बहुव्रीहिः ॥ " शीलं स्वभावे सद्वृत्ते” इत्यमरः । वनगजाः कान्तारमातङ्गाः तथा वनगजवत् । अब्दा आपो ददति इत्यब्दाः मेघाश्च । इदं दानमेव श्लाघ्यमित्येतत् । शंसन्ति ननु स्तुवन्ति खलु । ते तव । सगन्धः सबन्धुरिति केचित् । “गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः" इति विश्वः । वामः वामभागस्थः । “ वामस्तु रुचके रम्ये सव्ये वामस्थितेऽपि च” इति शब्दार्णवः । अयं चातकश्च पक्षिविशेयोपि । “ अथ सारङ्गस्तोककश्चातकः समाः ” इत्यमरः । मधुरं श्राव्यं यथा तथा । नुदति प्रेरयति । वामभागे चातकध्वनिः शुभनिमित्तमित्यर्थः ॥ ३८ ॥ युद्धे शौण्डो यदि च भगवान्वीरशय्यां श्रितः स्याः
स्वर्गस्त्रीणामहमहमिकां संविधास्यस्तदा त्वाम् । विद्याधर्यो नभसि वृणते पुण्यपाकाद्विनश्य
द्गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः ॥ ३९ ॥
युद्धे चेति ॥ यदि च यदा । भगवान् महात्मा त्वम् । युद्धे साम्पराये । शौण्डः आसक्तः । “मत्ते शौण्डोत्कटक्षीबाः" इत्य